________________
७४
जैनस्तोत्रसन्दोहे। [श्रीभद्रबाहुअधुना चतुर्थगार्थामाह
तुह सम्मत्ते लद्वे चिंतामणिकप्पपायवब्भहिए । पावंति अविग्घेणं जीवा अयरामरं ठाणं ॥
लघुवृत्तिः । तथा ॐ ह्री श्री इत्यक्षरत्रयान्तरितं नाम कृत्वा बाह्ये षोडशपत्राम्बुजमालिख्य पत्रेषु ही श्री प्रत्येकमक्षरद्वयं दातव्यम् , उपरि वा क्षिप ॐ स्वाहा इति मन्त्रेण सर्वतो वेष्टयेत् , ततस्त्रिगुणमायाबीजेनावेष्टनीयमिति ।
इदमपि पूर्वोक्तमन्त्रयुक्त्यार्चितं दुर्भगानां सौभाग्यं करोति। अपस्मारादिपीडां निवारयति । परं गुरुपादपूजापूर्व सर्वत्रापि प्रवृत्तिः कार्या । अन्यथा सिद्धिर्न भवति । क्रमलोपाच्च ध्रुवमसिद्धिरेवेति पादलिप्तगुरोर्वचः इति तृतीयगाथार्थः ॥ ३ ॥ 'तुह सम्मत्ते० ' व्याख्या--
प्राप्नुवन्ति अविघ्नेन जीवा अजरामरं स्थानम् । क्व सति ? तव सम्यक्त्वे चिन्तामणिकल्पपादपाभ्यधिके लब्धे सति । इति गाथार्थः । अत्रापि सम्प्रदायः कथ्यते
आदौ पार्श्वनाथं परिकल्प्य दक्षिणे धरणेन्द्रं वामे पद्मावती परिकल्प्य उपरि ब्रह्माणं अधो नागनामानि कल्पयित्वा वलयं दत्वा तदुपरि अष्टदलाम्बुजं प्रत्येकं नमिऊण १ पास २ विसहर ३ वसह ४ जिण ५ फुलिंग ६ ह्रौ ७ नमः ८ आलिख्य बाह्ये च षोडश विद्यादेवीनाम एकैकस्वरसहित षोडशदलकमलमालिख्य उपरि चतुर्विंशतिदलकमलं मरुदेवी-विजया-सेनाइत्यादिनामसहितमालिख्य ह्रीकारेण वेष्टय प्रहदिक्पालाभिधानान्वितं कल्पयित्वा सुरभिद्रव्यैरालिख्य सुरभिपुष्पैनिरन्तरं नियमतः पूजनीयम् । लघुदेवकुलमिदम् । सर्वार्थसाधकं भवति । पूजामन्त्रः पूर्वोक्त एव गुरुमुखाज्ज्ञातव्यः । गुरुपादपूजा प्रचुरभोगः कार्यः ।।
इति चतुर्थगाथार्थः ॥ ४ ॥