________________
~
~
~
~~
~
~
स्वामिप्रणीतम्] उपसर्गहरस्तोत्रम्। अथ तृतीयागाथामाह
चिट्ठउ दूरे मंतो तुज्झ पणामो वि बहुफलो होइ । नरतिरिएसु वि जीवा पावंति न दुक्खदोहग्गं ॥ ३ ॥
लघुवृत्तिः । व्याख्या
'चिटउ दूरे मंतो' गाथा । तिष्ठतु ' आस्ताम् , कोऽसौ ? मन्त्रः। यतो युष्माकं प्रणामोऽपि बहुफलश्चैव । यस्मानरेषु तिर्यक्षु च जीवा न प्राप्नुवन्ति दुःखदौर्गत्यमित्यक्षरार्थः । वृद्धसम्प्रदायवायम्
हीकारे देवदत्तनामालिख्य बहिरिष्टदलपद्मपत्रेषु ह्रीकार एव दातव्यः, उपरि च ईकारेण त्रिगुणेन वेष्टनीयम् ।
एतद् यन्त्रं कुङ्कुमगोरोचनादिसुरभिद्रव्यैलिखितं 'औं ही हूँ नमो अरिहंताणं हूं नमः, अनेन मन्त्रण अष्टोत्तरसहस्रश्वेतपुष्पैरर्चितं पञ्चरत्नगर्भ कुमारीसूत्रप्रथितं नारीकण्ठे वामभुजे वा धृतं वन्ध्याशब्दापहं भवति ।
तथा मायाबीजगर्भ नाम कृत्वा बहिरष्टदलेषु हं हूँ ही हूँ प्रत्येक दापयेत् । ॐ ह्रीं श्री इत्यक्षराणि प्रत्येकं न्यस्य ह्रीकारेण त्रिगुणेन संवेष्टय पूर्वमन्त्रेणार्चितं मृतवत्सानारीणामपत्यप्राणदायकं भवति ।
___ तथा क्षम्यू मध्ये नाम दत्त्वा बहिरष्टदलपत्रेषु हं y हूँ प्रत्येक दापयेत् , उपरि श्रीकारेण त्रिधा वेष्टयेत् पूर्वोकमन्त्रेणाभ्यर्च्य स्त्रीणां कण्ठे बाहौ वा धारयेत् । अस्य प्रभावतः काकवन्ध्यापि प्रसूते ।
तथा ॐकारेण देवदत्तनामालिख्य बाह्ये षोडशस्वररावेष्टय उपरि च ॐ ह्री ऐ क्षी चामुण्डे ! स्वाहाँ इत्यक्षरैर्वलयं पूरयित्वा उपरि च हीकारेण चेष्टयेत् । ___इदमपि यन्त्रं कुङ्कुमादिभिः सुरभिद्रव्यैलिखितं बालानां ग्रहपीडां निवारयति । केषांचित् भूतादिभयं निषेधयति ।