SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ ७२ जैनस्तोत्रसन्दोहे। [श्रीभद्रबाहु लघुवृत्तिः । चारित्राय हाँ नमः पर्यन्तानि पूर्वोक्तरीत्या स्थाप्यानि । तत उवसग्गहर पासं इति सकलगाथया वेष्टयेत् । ततो अनन्तकुलिका-वासुकि-शङ्खपाल-तक्षक-ककोंटक-पद्म-महापद्मान्तानि अष्टनागाधिपनामानि ॐकारपूर्वाणि नमःशब्दान्तानि अष्टदलकमलमध्येषु संस्थाप्य ततो विसहरफुलिंग इत्यादिगाथया वेष्ट्य तद्बहिः षोडशशु दलेषु षोडश विद्यादेवीनामानि संलिख्य पुनरपि बाह्ये चतुर्विशतिदलेषु तीर्थकरजननीनामानि पूर्वोक्तक्रमेणालिख्य पुनरप्यष्टच्छदाम्बुजैः अष्टौ दिक्पालनामानि, ततः चिट्रउ दूरे मंतो इति सकलगाथया वेष्टः कार्य: ततः पुनरप्यष्टदलकमलम् , तेषु आदित्य जया १ सौम अजिता २ मङ्गल अपराजिता ३ बुध जंभा ४ बृहस्पति मोहा ५ शुक्र गौरी ६ शनि गान्धारी ७ राहु केतु विजया ८ इति नामानि नमोऽन्तानि दलेषु संस्थाप्य ततः ॐ वम्माएवि ! सपुत्ति ! सवाहणि ! सपरिकरि ! श्वेतवस्त्राभरणभूषिते ! अन मण्डले आगच्छ आगच्छ स्वस्थाने तिष्ठ तिष्ठ स्वाहा । तुह सम्मत्ते लद्धे इति गाथया वेष्टयेत् , त्रिगुणमायाबीजेन वेष्टयित्रा इदं चक्रं पृथ्वीमण्डले पूर्वयुक्तिप्रतिपादिते स्थापयेत् । इति चिन्तामणिचक्रस्थापनविधिः । ___ इदं चक्रं कुङ्कुमगोरोचनाप्रभृतिसुरभिद्रव्यैस्तानभाजने भूर्ये पत्रे वा संलिख्य श्वेतवस्त्र-श्वेताभरण-श्वेतमाला-विलेपन-जुषा पुंसा एकान्तशुचिप्रदेशे ध्यानावेशपूर्व त्रिकालमष्टोत्तरशतं प्रधानं अम्लानश्वेतसुगन्धपुष्पैः पूज्यमानं सर्वामयप्रशमनं सर्वदुष्टभयहरं कीर्तियश:सुभगतासम्पादनं सम्पत्करं चिन्तातीतार्थसाधकं भवत्यशंसयम् । अथवा रक्षाविषये कुङ्कुमादिद्रव्यैर्भूयें लिखितं कण्ठे धृतं सुगन्धिपुष्पसहनजप्तं नृपवन्हितस्कर शाकिनीप्रभृति क्षुद्रोपद्रवं निवारयति । पूजामन्त्रः पूर्वकथित एवात्रापि ज्ञेयः । ॥ इति चिन्तामणिचक्रसमाप्तौ द्वितीयागाथापि समाप्ता ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy