Book Title: Jainstotrasandohe Part 1
Author(s): Chaturvijay
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 620
________________ ~ ~ ~ ~~ ~ ~ स्वामिप्रणीतम्] उपसर्गहरस्तोत्रम्। अथ तृतीयागाथामाह चिट्ठउ दूरे मंतो तुज्झ पणामो वि बहुफलो होइ । नरतिरिएसु वि जीवा पावंति न दुक्खदोहग्गं ॥ ३ ॥ लघुवृत्तिः । व्याख्या 'चिटउ दूरे मंतो' गाथा । तिष्ठतु ' आस्ताम् , कोऽसौ ? मन्त्रः। यतो युष्माकं प्रणामोऽपि बहुफलश्चैव । यस्मानरेषु तिर्यक्षु च जीवा न प्राप्नुवन्ति दुःखदौर्गत्यमित्यक्षरार्थः । वृद्धसम्प्रदायवायम् हीकारे देवदत्तनामालिख्य बहिरिष्टदलपद्मपत्रेषु ह्रीकार एव दातव्यः, उपरि च ईकारेण त्रिगुणेन वेष्टनीयम् । एतद् यन्त्रं कुङ्कुमगोरोचनादिसुरभिद्रव्यैलिखितं 'औं ही हूँ नमो अरिहंताणं हूं नमः, अनेन मन्त्रण अष्टोत्तरसहस्रश्वेतपुष्पैरर्चितं पञ्चरत्नगर्भ कुमारीसूत्रप्रथितं नारीकण्ठे वामभुजे वा धृतं वन्ध्याशब्दापहं भवति । तथा मायाबीजगर्भ नाम कृत्वा बहिरष्टदलेषु हं हूँ ही हूँ प्रत्येक दापयेत् । ॐ ह्रीं श्री इत्यक्षराणि प्रत्येकं न्यस्य ह्रीकारेण त्रिगुणेन संवेष्टय पूर्वमन्त्रेणार्चितं मृतवत्सानारीणामपत्यप्राणदायकं भवति । ___ तथा क्षम्यू मध्ये नाम दत्त्वा बहिरष्टदलपत्रेषु हं y हूँ प्रत्येक दापयेत् , उपरि श्रीकारेण त्रिधा वेष्टयेत् पूर्वोकमन्त्रेणाभ्यर्च्य स्त्रीणां कण्ठे बाहौ वा धारयेत् । अस्य प्रभावतः काकवन्ध्यापि प्रसूते । तथा ॐकारेण देवदत्तनामालिख्य बाह्ये षोडशस्वररावेष्टय उपरि च ॐ ह्री ऐ क्षी चामुण्डे ! स्वाहाँ इत्यक्षरैर्वलयं पूरयित्वा उपरि च हीकारेण चेष्टयेत् । ___इदमपि यन्त्रं कुङ्कुमादिभिः सुरभिद्रव्यैलिखितं बालानां ग्रहपीडां निवारयति । केषांचित् भूतादिभयं निषेधयति ।

Loading...

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662