________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवीतरागस्तुति :
( व्याख्यासहिता) संशोधक-आचार्य महाराज श्री विजययतीन्द्रसरिजी कुखगोऽघडचछोऽजाझोऽअट ! ठोडढोऽणतैः ।
ध्युदधिनिपफो वार्मा यारलोऽव शंषसः ॥ १॥ व्याख्या-हे अज! त्वं मां अव-रक्ष । अज इति किम् ? न जायते इति 'अजः' यद्वा न विद्यते ज-जन्म जस्यासावजः, तत्सम्बोधने हे अज-हे वीतराग! कथम्भृतस्त्वम् ? “कुखगः' कुः-पृथ्वी तस्यां खगः-सूर्यः । पुनः कथम्भूतस्त्वम् ? 'अघङचछः' अर्घ-पापं तस्य ङ-विषयस्तस्य छः छेदकः । भूयः कथम्भूतस्त्वम् ? 'अझः' न विद्यते झः-बन्धनं यस्यासावझः, बन्धनं किम् ? कर्मणामेव । पुनः कीदशस्त्वम् 'अञट' अ-निषेधे ओ-विषय एष ट:-बातो यस्यासाबञटस्तत्सम्बुद्धौ हे अत्रट-त्यक्तविषयवात! भूयः कीदृशस्त्वम्? 'अणतैः' अणं-अज्ञानं ताः-क्रोधादयस्तैः अणतैः, ठः-शून्यः-रहितः । पुनः कथम्भूतस्त्वम् ? 'डढः' डः-चन्द्रमण्डलस्तवत् ढः-विख्यातः । भूयः कीदृशस्त्वम् ? 'थ्युदधिः' थयो लक्षणानि सामुद्रिकादयस्तेषामुदधिः समुद्रः । पुनः कथम्भूतस्त्वम् ? 'निपफः' निस्तन्द्रं तदेव पं-प्रौढं फं-फलं यस्यासौ निपफः । पुनः कोदृशस्त्वम् ? 'वाभूः' वः-क्लेशस्तस्य न विद्यते भूः-उत्पत्तिर्यस्यासौ वाऽभूः । भूयः कीदृशस्त्वम् ? 'यारलः' या-पृथिवी तस्या रान्-भयानि ल:लुनातीति यारलः । पुनः कथम्मूतस्त्वम् ? 'शंषसः' श-सुख तदेव षा-श्रेष्ठा सा-लक्ष्मीर्यस्यासौ शंषसः, इति शब्दार्थव्याख्या ।
भूमंडलमाई सूर्यनई जिमि पापपुंजना नाश करनार, करमना बंधनोथी, क्रोधादि अज्ञानपणाथी, तन्द्रा, किलेस अनइ पुनर्जन्मथी रहित, तेमजि चन्द्रमंडलनी परइ प्रसिद्ध, सउथी उत्तम केवलज्ञानादि लक्ष्मीथी सोभायमान, सारा लक्षणोना सागर अनइ भीतिना नाम करनार हे वीतराग-प्रभु ! अमारी रक्षा करउ. संवत् १५१२ श्रावणसुक्लाष्टम्यामिति पं. देवचंद्रेण लिखितं स्वश्रेयसे शमीनानगरे ।
___ नोट-यह श्रीवीतराग स्तुति श्रीराजेन्द्रजैनागमज्ञानभंडार-आहोर के विंडल नं. १८३ के एक प्राचीनपत्र से उद्धृत की है। इस स्तुति की विशेषता यह है कि ३२ मात्रात्मक अनुष्टुप वृत्त के एक ही श्लोक में 'क' से 'स' तक के ३२ अक्षरों का उसमें सार्थक समावेश किया गया है। संस्कृत भाषा में एकाक्षरी कोष की सम्पत्ति कितनी अधिक है उसका कुछ परिचय इस लोक में प्राप्त होता है ।
For Private And Personal Use Only