Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya,
Publisher: Rushabhdev Chagniramji
View full book text
________________
२१५
पुंस्त्रीलिङ्गश्चतुर्दशेऽड्के शङ्कुर्निरये च दुर्गतिः । दोर्मूले कक्ष आकरे गञ्जो भूरुहि वाणपिप्पलौ ॥५॥ नाभिः प्राण्यङ्गके प्रधिर्नेमो कचन वलिगुहे कुटः । श्रोण्यौषध्योः कटो भ्रमो मोहे पिण्डो वृन्दगोलयोः ॥७६।। भकनीनिकयोस्तारो, भेऽश्लेषहस्तश्रवणाः । कणः स्फुलिङ्गे लेशे च, वराटो रज्जुशस्त्रयोः ॥७७॥ कुम्भः कलशे तरणिः, समुद्राांशुयष्टिषु । भागधेयो राजदेये, मेरुजम्यां'सुदर्शनः ॥७॥ करेणुर्गजहस्तिन्योरल्याख्यापत्यतद्धितः । लाजवादशौ भूम्नीहाद्याः प्रत्ययभेदतः ॥७९॥ शुण्डिकचर्मप्रसेवको सल्लकमल्लकवृश्चिका अपि । शल्यकधुटिको पिपीलिक चुलुकहुडुक्कतुरुष्कतिन्दुकाः ॥८॥
शृङ्गोऽथ लञ्चभुजशाटसटाः सृपाटः, ___ कीटः किटस्फटघटा वरटः किलाटः । चोटश्चपेटफटशुण्डगुडाः सशाणाः,
स्युरिपर्णफणगर्तरथाजमोदाः ॥८॥ विधकूपकलम्बजित्यवर्धाः, सहचरमुद्रनालिकेरहाराः । बहुकरकसरौ कुठारशारौ, वल्लरशफरमसूरकीलरालाः ॥८२॥ पटोलः कम्बलो भल्लो, दंशो गण्डूषवेतसौ। लालसो रभसो वर्तिवितस्तिकुटयस्तृटिः ।।८३॥

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263