Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 248
________________ २४२ यथास्थितं वस्तु दिशन्नधीश! न तादृशं कौशलमाश्रितोऽसि । तुरङ्गशृंगाण्युपपादयस्यो नमः परेभ्यो नवपण्डितेभ्यः ॥५॥ जगन्त्यनुध्यानवलेन शश्वत् । कृतार्थयत्सु प्रसभं भवत्सु । किमाश्रितोऽन्यैः शरणं त्वदन्यः स्खमांसदानेन वृथा कृपालुः ॥६॥ स्वयं कुमार्गग्लपिता नु नाम प्रलम्भमन्यानपि लम्भयन्ति । सुमार्गगं तद्विदमादिशन्त __ मस्ययान्धा अवमन्वते च ।।७।। प्रादेशिकेभ्यः परशासनेभ्यः पराजयो यत्तव शासनस्य। खद्योतपोतद्युतिडम्बरेभ्यो विडम्बनेय हरिमण्डलस्य ॥८॥ शरण्य ! पुण्ये तव शासनेऽपि संदेग्धि यो विप्रतिपद्यते वा। स्वादौ स तथ्ये स्वहिते च पथ्ये संदेग्धि वा विप्रतिपद्यते वा ॥९॥

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263