Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 255
________________ २४९ आदीपमाव्योम समस्वभावं साद्वादमुद्रानतिमेदिवस्तु । तन्नित्यमेवैकमनित्यमन्य दिति त्वदाज्ञाद्विषतां प्रलापाः ॥५॥ कर्तास्ति कश्चिद् जगतः स चैकः स सर्वगः स ववशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्यु स्तेषां न येषामनुशासकस्त्वम् ॥६॥ न धर्मधमित्वमतीवमेदे वृत्यास्ति चेन्न त्रितयं चकास्ति । इहेदमित्यस्ति मतिश्च वृत्ती न गौणभेदोऽपि च लोकवाधः ॥७॥ सतामपि स्यात् कचिदेव सत्ता चैतन्यमोपाधिकमात्मनोऽन्यत् । न संविदानन्दमयी च मुक्तिः सुसूत्रमासूत्रितमत्वदीयैः ॥८॥ यत्रैव यो दृष्टगुणः स तत्र ___कुम्भादिवनिष्प्रतिपक्षमेतत् । तथापि देहान् बहिरात्मतत्त्व मतत्ववादोपहताः पठन्ति ॥९॥

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263