Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 258
________________ विनानुमानेन पराभिसन्धि मसंविदानस्य तु नास्तिकस्य । न साम्प्रतं वक्तुमपि क चेष्टा क दृष्टमानं च हहा प्रमादः ॥२०॥ प्रतिक्षणोत्पादविनाशयोगि स्थैिरकमध्यक्षमपीक्षमाणः। जिन ! त्वदाज्ञामवमन्यते यः स वातकी नाथ ! पिशाचकी वा ॥२१॥ अनन्तधर्मात्मकमेव तत्व मतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादि कुरङ्गसंत्रासनसिंहनादाः ॥२२॥ अपर्यय वस्तु समस्यमान मद्रव्यमेतच्च विविच्यमानम् । आदेशभेदोदितसप्तभङ्ग मदीदृशस्त्वं बुधरूपवेद्यम् ॥२३॥ उपाधिभेदोपहितं विरुद्ध नार्थेष्वसत्त्वं सदवाच्यते च । इत्यप्रबुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति ॥२४॥

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263