________________
विनानुमानेन पराभिसन्धि
मसंविदानस्य तु नास्तिकस्य । न साम्प्रतं वक्तुमपि क चेष्टा
क दृष्टमानं च हहा प्रमादः ॥२०॥ प्रतिक्षणोत्पादविनाशयोगि
स्थैिरकमध्यक्षमपीक्षमाणः। जिन ! त्वदाज्ञामवमन्यते यः
स वातकी नाथ ! पिशाचकी वा ॥२१॥ अनन्तधर्मात्मकमेव तत्व
मतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादि
कुरङ्गसंत्रासनसिंहनादाः ॥२२॥ अपर्यय वस्तु समस्यमान
मद्रव्यमेतच्च विविच्यमानम् । आदेशभेदोदितसप्तभङ्ग
मदीदृशस्त्वं बुधरूपवेद्यम् ॥२३॥ उपाधिभेदोपहितं विरुद्ध
नार्थेष्वसत्त्वं सदवाच्यते च । इत्यप्रबुध्यैव विरोधभीता
जडास्तदेकान्तहताः पतन्ति ॥२४॥