Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 254
________________ २४८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता ॥अन्ययोगव्यवच्छेदिका ॥ अनन्तविज्ञानमतीतदोष ___ मवाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्धमानं जिनमाप्तमुख्यं, स्वयम्भुवं स्तोतुमहं यतिष्ये ॥१॥ अयं जनो नाथ! तव स्तवाय गुणान्तरेभ्यः स्पृहयालुरेव । विगाहतां किन्तु यथार्थवाद___ मेकं परीक्षाविधिदुर्विदग्धः ॥२॥ गुणेष्वसूयां दधतः परेऽमी ___ मा शिश्रियन्नाम भवन्तमीशम् । तथापि संमील्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम् ॥३॥ खतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतवाद् द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥४॥

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263