________________
२४८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता
॥अन्ययोगव्यवच्छेदिका ॥ अनन्तविज्ञानमतीतदोष
___ मवाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्धमानं जिनमाप्तमुख्यं,
स्वयम्भुवं स्तोतुमहं यतिष्ये ॥१॥ अयं जनो नाथ! तव स्तवाय
गुणान्तरेभ्यः स्पृहयालुरेव । विगाहतां किन्तु यथार्थवाद___ मेकं परीक्षाविधिदुर्विदग्धः ॥२॥ गुणेष्वसूयां दधतः परेऽमी
___ मा शिश्रियन्नाम भवन्तमीशम् । तथापि संमील्य विलोचनानि
विचारयन्तां नयवर्त्म सत्यम् ॥३॥ खतोऽनुवृत्तिव्यतिवृत्तिभाजो
भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतवाद्
द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥४॥