Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 251
________________ २४५ चपुश्च पर्यकशयं श्लथं च . ____दृशौ च नासानियते स्थिरे च। न शिक्षितेयं परतीर्थनाथै जिनेन्द्र ! मुद्रापि तवान्यदास्ताम् ॥२०॥ यदीयसम्यक्त्ववलात् प्रतीमो भवादृशानां परमस्वभावम् कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तब शासनाय ॥२१॥ अपक्षपातेन परीक्षमाणा द्वयं द्वयस्याप्रतिम प्रतीमः । यथास्थितार्थप्रथनं तवैत दस्थाननिर्वधरसं परेषाम् ।।२२।। अनायविद्योपनिषविषण्णै विशृंखलैश्चापलमाचरद्भिः। अमूढलक्ष्योऽपि पराक्रिये य __ चम्किकरः किं करवाणि देव! ॥२३॥ विमुक्तवैरव्यसनानुवन्धाः श्रयंति या शाश्वतवैरिणोऽपि । परैरगम्यां तब योगिनाथ ! तां देशनाभूमिमुपाश्रयेऽहम् ॥२४॥

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263