Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 250
________________ २४४ अनाप्तजाड्यादिविनिर्मितित्वसंभावनासंभवि विप्रलम्भाः । परोपदेशाः परमाप्तक्लप्तपथोपदेशे किमु संरभन्ते ॥ १५ ॥ यदाजवादुक्तमयुक्तमन्यै स्तदन्यथाकारमकारि शिष्यैः । न विप्लवोऽयं तव शासनेऽभू दहो अधृष्या तव शासनश्रीः ॥ १६ ॥ देहाद्ययोगेन सदाशिवतं शरीरयोगादुपदेशकर्म | परस्परस्पर्धि कथं घटेत परोपक्लृप्तेष्वधिदैवतेषु ॥१७॥ प्रागेव देवांतरसंश्रितानि रागादिरूपाण्यवमान्तराणि । न मोहजन्यां करुणामपीश ! समाधिमाध्यस्थ्ययुगाश्रितोऽसि ॥ १८ ॥ जगन्ति भिन्दन्तु सृजन्तु वा पुनfer तथा वा पतयः प्रवादिनाम् । त्वदेकनिष्ठे भगवन् भवक्षय क्षमोपदेशे तु परं तपस्विनः ॥१९॥

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263