________________
२४२
यथास्थितं वस्तु दिशन्नधीश!
न तादृशं कौशलमाश्रितोऽसि । तुरङ्गशृंगाण्युपपादयस्यो
नमः परेभ्यो नवपण्डितेभ्यः ॥५॥ जगन्त्यनुध्यानवलेन शश्वत् ।
कृतार्थयत्सु प्रसभं भवत्सु । किमाश्रितोऽन्यैः शरणं त्वदन्यः
स्खमांसदानेन वृथा कृपालुः ॥६॥ स्वयं कुमार्गग्लपिता नु नाम
प्रलम्भमन्यानपि लम्भयन्ति । सुमार्गगं तद्विदमादिशन्त
__ मस्ययान्धा अवमन्वते च ।।७।। प्रादेशिकेभ्यः परशासनेभ्यः
पराजयो यत्तव शासनस्य। खद्योतपोतद्युतिडम्बरेभ्यो
विडम्बनेय हरिमण्डलस्य ॥८॥ शरण्य ! पुण्ये तव शासनेऽपि
संदेग्धि यो विप्रतिपद्यते वा। स्वादौ स तथ्ये स्वहिते च पथ्ये
संदेग्धि वा विप्रतिपद्यते वा ॥९॥