Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 247
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता ॥अयोगव्यवच्छेदिका॥ अगम्यमध्यात्मविदामवाच्यं वचस्विनामक्षवतां परोक्षम् । श्रीवर्धमानाभिधमात्मरूप महं स्तुतेर्गोचरमानयामि ॥१॥ स्तुतावशक्तिस्तव योगिनां न किं गुणानुरागस्तु ममापि निश्चलः। इदं विनिश्चित्य तव स्तवं वदन्न वालिशोऽप्येप जनोऽपराध्यति ॥२॥ क सिद्धसेनस्तुतयो महार्था अशिक्षितालापकला क चैपा। तथापि यथाधिपतेः पथिस्थः । ___ स्खलद्गतिस्तस्य शिशुन शोच्यः ॥३॥ जिनेन्द्र ! यानेव विवाधसे स्म दुरंतदोपान् विविधैरुपायैः। त एव चित्रं त्वदसूययेव कृताः कृतार्थाः परतीर्थनाथैः ॥४॥

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263