________________
२३४ ६ इष्टार्थसिद्धय दृष्टान्तो निदर्शनम् । ७ प्रकृताप्रकृतानां धर्मैक्यं दीपकम् । ८ सामान्यविशेष कार्य कारणे प्रस्तुते तदन्यस्य
तुल्ये तुल्यस्य चोक्तिरन्योक्तिः। ९ व्यङ्ग्यस्योक्तिः पर्यायोक्तम् । १० विशेषविवक्षया भेदाभेदयोगाऽयोगव्यत्ययोऽ
तिशयोक्तिः। ११ विवक्षितस्य निषेध इवोपमानस्याऽऽक्षेपश्चाक्षेपः। १२ अर्थानां विरोधाभासो विरोधः । १३ सहार्थवलाद्धर्मस्यान्वयः सहोक्तिः । १४ श्लिष्टविशेषणैरुपमानधीः समासोक्तिः । १५ स्वभावाख्यानं जातिः। १६ स्तुतिनिन्दयोरऽन्यतरपरता व्याजस्तुतिः । १७ वाक्यस्यार्थनेकार्थता श्लेषः । १८ उत्कर्षापकर्षहेत्वोः साम्यस्य चोक्तावनुक्तौ चोप
मेयस्याधिक्यं व्यतिरेकः । १९ विशेषस्य सामान्येन साधर्म्यवैधाभ्यां सम
र्थनमर्थान्तरन्यासः। २० स्तुत्यै संशयोक्तिः ससंदेहः ।