Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 242
________________ २३६ ४ धीरे गतिदृष्टी सस्मितं वचो विलासः । ५ मृदुशृङ्गारचेष्टा ललितम् । ६ क्षोभेप्यनुवणं माधुर्यम् । ७ विघ्नेप्यचलं स्थैर्यम् | ८ हर्षादिविकारानुपलम्भकृद्गाम्भीर्यम् । ९ स्वपरेषु दानाभ्युपपत्ति संभाषणान्यौदार्यम् । १० पराऽधिक्षेपाद्यसहनं तेजः । ११ धीरोदात्तललितशान्तोद्धतभेदात्स चतुर्धा | १२ दक्षिणधृष्टानुकूलशठभेदादेकैकथतुर्धा | १३ गूढगर्वः स्थिरो धीरः क्षमावान् अविकत्थनः महासच्चो दृढव्रतो धीरोदात्तः । १४ कलासक्तः सुखी शृङ्गारी मृदुर्निश्चिन्तो धीरललितः । १५ विनयोपशमवान् धीरशान्तः । १६ शूरो मत्सरी मायी विकत्थनश् छद्मवान् रौद्रोsaलिप्तो धीरोद्धतः । १७ ज्येष्ठायामपि सहृदयो दक्षिणः । १८ व्यक्तापराधो धृष्टः । १९ एकभार्योऽनुकूलः ।

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263