________________
२३६
४ धीरे गतिदृष्टी सस्मितं वचो विलासः ।
५ मृदुशृङ्गारचेष्टा ललितम् । ६ क्षोभेप्यनुवणं माधुर्यम् । ७ विघ्नेप्यचलं स्थैर्यम् | ८ हर्षादिविकारानुपलम्भकृद्गाम्भीर्यम् । ९ स्वपरेषु दानाभ्युपपत्ति संभाषणान्यौदार्यम् । १० पराऽधिक्षेपाद्यसहनं तेजः ।
११ धीरोदात्तललितशान्तोद्धतभेदात्स चतुर्धा | १२ दक्षिणधृष्टानुकूलशठभेदादेकैकथतुर्धा | १३ गूढगर्वः स्थिरो धीरः क्षमावान् अविकत्थनः महासच्चो दृढव्रतो धीरोदात्तः ।
१४ कलासक्तः सुखी शृङ्गारी मृदुर्निश्चिन्तो धीरललितः ।
१५ विनयोपशमवान् धीरशान्तः ।
१६ शूरो मत्सरी मायी विकत्थनश् छद्मवान् रौद्रोsaलिप्तो धीरोद्धतः ।
१७ ज्येष्ठायामपि सहृदयो दक्षिणः ।
१८ व्यक्तापराधो धृष्टः । १९ एकभार्योऽनुकूलः ।