________________
२२७
१ विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायी
भावो रसः। २ शृङ्गारहास्यकरुणा रौद्रवीरभयानका वीभत्सा
द्भुतशान्ता नव रसाः। ३ स्त्रीपुंसमाल्यादिविभावा जुगुप्सालस्यौग्र्यवर्ज
व्यभिचारिका रतिः संभोगविप्रलम्भात्मा शृङ्गारः। ४ सुखमयधृत्यादिव्यभिचारी रौमाश्चाधनुभाव:
सम्भोगः। ५ शङ्कादिव्यभिचारी सन्तापाद्यनुभावोऽभिलापमा
नप्रवासरूपो विप्रलम्भः। ६ दैवपारवश्याभ्यामाद्यो द्वेधा । ७ प्रणयेाभ्यां मानः। ८ कार्यशापसम्भ्रमैः प्रवासः। ९ विकृतवेपादिविभावो नासास्पदनाद्यनुभावो निद्रा
दिव्यभिचारी हासो हास्यः। १० उत्तममध्यमाधमेषु स्मितविहसितापहसितैः स
आत्मस्थस्त्रेधा। ११ एतत्संक्रमर्हसितोपहसितातिहसितैः परस्थोऽपि । १२ इष्टनाशादिविभावो देवोपालम्भावनुभावो दुःख