Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 384
________________ हरिवंशपुराणं । द्वाविंशतितमः सर्गः । नर्त्तकी प्रेक्षण क्षिप्तश्चक्षुरिंगितलक्षितः । स तां प्रणाममात्रेण मानिनीमनयद्वशं ॥ ४५ ॥ विपक्षप्रेक्षणासक्तिसापराधेऽपि भर्त्तरि । स्त्रीणां प्रणयकोपस्य प्रणामो हि निवर्त्तकः ॥ ४६ ॥ अथ विद्याधरीवृद्धा वृद्धा विद्येव रूपिणी । तत्कन्ययान्यदोत्सृष्टा त्रिपुंड्रकृतमंडना ॥ ४७ ॥ एकांते सुस्थितं हर्म्ये कथंचिच्चित्तहारिणी । दत्ताशीः शौरिमाद्दैवमासीना सन्मुखासने ।। ४८ ।। पुराणवस्तुनो वीर ! विस्तरस्तव चेतसि । शुद्धादर्शतले यद्वद् यद्यपि प्रतिभासते ।। ४९ ॥ तथाप्यनूद्यते वस्तु मया विद्याधरश्रितं । सो (?) विषौषधिनाथस्य स्पृष्टं किं नौषधिः स्पृशेत् ॥ ५० ॥ प्रदर्शितजगज्जीव्यो युगाद्यो वृषभेश्वरः । भरतेश्वरविन्यस्तराज्योऽसौ प्राव्रजद् यदा ॥ ५१ ॥ राजक्षत्रोग्रभोजाद्यास्तदा तत्तपसि स्थिताः । चतुः सहस्रसंख्या ये प्राग्भग्नाश्च परीषहैः || ५२ || तेषां मध्ये तु यौ भग्नौ नमिर्विनमिरित्युभौ । भ्रातरौ पादयोर्लग्नौ भर्तुस्तस्थतुरर्थिनौ ॥ ५३ ॥ धरणेन शरण्येन निर्गत्य धरणैः सह । दित्यदित्यभिधानाभ्यां देवीभ्यामागतेन तौ ॥ ५४ ॥ आश्वास्य जिनभक्तेन विद्याकोशो जिनांतिके । ताभ्यां प्रदापितस्तेन स्वदेवीभ्यां महात्मना ॥ ५५ ॥ विद्यानामदितिस्त्वष्टौ निकायान् प्रददौ तदा। गांधर्वसेनकश्चासौ विद्याकोशः प्रकाशितः ॥५६॥ Jain Education International ३३५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450