Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
हरिवंशपुराणं ।
सप्तविंशः सर्गः ।
३७७
1
बलिनो दुर्बलाश्चापि लोके संति तदत्र किं । बलिनां दुर्बला हस्तैर्लभंते नैव जीवितुं ॥ ३१ ॥ दुर्बलस्य वराकस्य हृताऽन्यस्य बलीयसा । रत्नानि तानि दाप्यतां यदि तेऽस्ति कृपा प्रभो ॥ ३२ ॥ राजा प्राह प्रिये ! वा भिन्नपात्रोयमत्रपः । अर्थनाशे गृही जातः प्रलपत्यविदुःखितः ॥ ३३ ॥ इत्युक्ता सा जगौ राजन्नैषोऽर्थग्रहदूषितः । यतो नियमितालापस्तत्त्वतस्तत्परीक्ष्यतां ॥ ३४ ॥ इत्याकर्ण्य नृपोऽपृच्छत्तमुपांशु दिनानने । अपन्हुते स्म स द्रोही कुतो लुब्धस्य सत्यता ॥ ३५ ॥ ततो द्यूतच्छलेनैव स परीक्षितुमुद्यतः । राज्ञी तं तु पुराप्राक्षीत् रात्रौ भुक्तमलक्षिता ॥ ३६ ॥ गत्वा निपुणमत्या च राजपत्न्या निदेशतः । याचितानि ददौ तानि साभिज्ञानमपि प्रिया ||३७|| द्यूते निर्जितमादाय ब्रह्मसूत्रं ययाच सा । धात्री तथापि नो लेभे पत्यादेशो हि तादृशः ||३८|| पतिनामांकितां दृष्ट्वा मुद्रिकां तान्यदात्प्रिया । वचनाद्रामदत्ताया द्यूतं चाप्युपसंहृतं ॥ ३९ ॥ व्यामिश्राण्यपि सद्रत्नैः परकीयैरसौ वणिक् । स्वरत्नान्येवमादाय राजपूजामवाप्तवान् ॥ ४० ॥ परस्वहरणप्रीतः सर्वस्वहरणं द्विजः । गोमयादनमप्याप्य मलमुष्टिहतो मृतः ॥ ४१ ॥ ranaaorat सर्पो गंधननामकः । भांडागारांतरे जज्ञे राज्ञो द्रोही हताशकः ॥ ४२ ॥ स्थापितोऽन्यः पदे तस्य द्विजो धम्मिल्लसंज्ञकः । मिध्यादृष्टिरदृष्टार्थं प्रति प्रायः किलोद्यतः ॥ ४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450