Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 446
________________ हरिवंशपुराणं। ३९७ त्रिंशः सर्गः। न चागम्यमगस्थानमिति चित्यं त्वया यतः। नेष्यं निमिषमात्रेण तत्र त्वाहं यथेप्सितं ॥१६॥ साभिज्ञानमाभिज्ञोऽसौ तं निशम्य निशाम्यतां । माह प्रापय सौम्यास्य सोमश्रीधाम मां द्रुतं॥१७॥ सा प्राप्तानुमतिः प्रीता खमुत्क्षिप्य प्रभावतीं । विद्याप्रभावसंपन्ना ययौ विद्युदिवोद्यता ॥१८॥ अन्योन्यांगसमासंगात् संगतांगरुहौ च तौ । खमुल्लंघ्य लघु प्राप्तौ स्वर्णनाभपुरं वरं ॥ १९ ॥ प्रवेशितस्तया स्रस्तरसनांशुकया गृहं । अप्रकाशमसौ देवः सोमश्रियमवैक्षत ॥ २०॥ प्रलंबालसकाम्लानकपोलवदनश्रियं । स्वांतभ्रांतालिसम्लानिसपद्मामिव पद्मिनी ॥ २१ ॥ देवदर्शनपर्यंतवेणीवंधेन संगतां । तनुना सेतुबंधेन धुनीमिव तदंतकं ॥ २२ ॥ तांबूलरागनिर्मुक्तकिंचिद्धृसरिताधरां । म्लानामीपत्परिम्लानपल्लवामिव वल्लरीं ॥ २३ ॥ अभ्युत्थितां विभुं वीक्ष्य पीनपांडुपयोधरां । तुष्टः सोमश्रियं दृष्ट्वा शारदीमिव स श्रियं ॥२४॥ आलिलिंगतुरन्योऽन्यं गाढं रोमांचकर्कशौ । पुनर्विरहभीरुत्वादेकतामिव तौ गतौ ॥ २५ ॥ साधुसाधितकार्यों सा तामाश्लिष्य प्रभावतीं । सखी प्रणसमां श्रव्यैर्वचनैरभ्यनंदयत् ॥ २६ ॥ रूपं नाम च तस्यासौ निजं कृत्वा प्रभावती । आपृच्छय दंपती मुक्त्वा ययावात्मीयमास्पदं २७ धाम्नि मानसवेगस्य परावर्तितरूपभृत् । सोमश्रिया सहाहानि न्यवसत्कतिचिद् यदुः ॥ २८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450