Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 447
________________ ३९८ हरिवंशपुराण। प्रिंशः सर्गः। एकदा प्राय विबुद्धाऽसौ प्रकृतिस्थाकृति पतिं । दृष्ट्रारुदविषद्भीत्या प्रमादपरिशंकिनी ॥२९॥ अपृच्छच्च विबुद्धोऽसौ किमर्थ रोदिषि प्रिये । आह रूपपरावृत्तिमपश्यंती तवेत्यसौ ॥ ३० ॥ मा भैषीरेष विद्यानां स्वभावः स्वयतां वपुः । अपमृत्याऽवतिष्ठते संश्रयंते सुजाग्रतां ॥ ३१॥ इत्युक्त्वा सुपरावृत्तिरूपं पूर्ववदेव सः । वसुदेवोऽवसत्तत्र यथेष्टं प्रियया युतः ॥ ३२ ॥ ततो मानसवेगेन कथंचिदुपलक्षितः । वैजयंती पति पत्न्या बलसिंहमसौ श्रितः ॥ ३३ ॥ तस्य न्यायपरस्याग्रे व्यवहारे पराजितः । मायी मानसवेगोऽसौ विलक्षो योद्धमुत्थितः ॥ ३४॥ सौरिपक्षतया केचित्खचराः समवस्थिताः । ततोऽभूदुनसंग्रामः सौरिमानसवेगयोः ॥३५॥ वेदाद् वेगवतीमात्रा जामात्रे धनुरर्पितं । दिव्यं दिव्यशरापूर्ण शरधिद्वयसंयुतं ॥३६ ।।। प्रज्ञप्तिश्च प्रभावत्या विज्ञाय लघु योजिता । तत्प्रभावादसौ संख्ये बबंध रिपुखेचरं ॥३७॥ तन्मात्रा याचितः सौरिः पुत्रभिक्षां दयापरः । सोमश्रीदर्शनं नीत्वा मुमोच खचराधिपं ॥३८॥ तेन मानसवेगेन बंधुभावमुपेयुषा । सपत्नीको विमानेन प्रापितः स महापुरं ॥ ३९ ॥ सोमश्री बंधुभिस्तत्र जाते तस्य समागमे । गतो मानसवेगोऽपि स्वस्थानं तद्वचास्थितः॥४०॥ श्रुतानुभूतवातादिप्रश्नपकथनात्मनोः । याति कामरसाक्षिप्रचेतसोः समयस्तयोः॥४१॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 445 446 447 448 449 450