Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
हरिवंशपुराणं ।
त्रिंशः सर्गः ।
रमिता यदुसूर्येण पद्मिनीव तदा बभौ । प्रियंगुसुंदरीसद्मन्यहान्यस्य बहून्यगुः || ६८ || अन्योन्यप्रेमबद्धस्य मिथुनस्य रहस्यतः । कृतं देवतया योगं राज्ञा ज्ञात्वाऽनुरूपयोः ॥ ६९ ॥ तोषिलोकप्रकाशार्थं तद्विवाहमकारयत् । ततः सर्वस्य लोकस्य विदितो यदुनंदनः ॥७०॥ रेमे प्रियंगु सुंदर्या सुंदर्या सह सुंदरः । रूपयौवनहारिण्या शच्येव कौशिको यथा ॥ ७१ ॥ स राजसुतया तया प्रथमबंधुमत्यापि च प्रतीत गुणसंपदा गुणकलाकलापश्रिया ॥ क्रमेण रतिगोचरे रहसि सेव्यमानः पुरी
मिमां जिनगृहार्चितां सुचिरमध्युवासाचितः ॥७२॥
इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनेसनाचार्यकृतौ बंधुमतीप्रियंगुसुंदरीलाभवर्णनो नाम एकोनत्रिंशः सर्गः ।
३९५
त्रिंशः सर्गः ।
अथ कार्तिक कायां चिक्रीडातिखेदकः । प्रियंगुसुंदरीगाढभुजबंधवशः प्रियः ॥ १ ॥ सुखनिद्रास विबुद्धश्च कुतश्चन । अद्राक्षीद् रूपिणीमेकां कन्यामन्यामिव श्रियं ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 442 443 444 445 446 447 448 449 450