Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 442
________________ हरिवंशपुराणं । ३९३ एकोनत्रिंशः सर्गः । इक्ष्वाकुकुलजो राजा श्रावस्त्यामस्तशात्रवः । शीलायुधस्त्वयाऽवश्यं दृष्टव्योऽहं सपुत्रया || ४२ || इत्याश्वास्थ रहस्येनामाश्लिष्य विरहासहः । तावन्निजबलं प्राप्तं तापसाश्रमगोचरं ||४३|| दृष्ट्वा तुष्टेन तेनामा प्रविष्टो नगरीमसौ । याते नृपे तया पित्रोर्विनिगृह्य ततस्त्रपां ॥४४॥ निवेदितमिदं वृत्तं लोकवृत्तविदग्धया । अंतर्वत्नी रहः पत्नी निस्त्रपस्य नृपस्य सा ||४५|| असूत सुतमुग्रीर्णमिव पित्रानुहारिणं । प्रसूतिक्लेशतः सा च प्रसूतिसमनंतरं ॥ ४६ ॥ मृता नागबधूर्जाता ज्वलनप्रभवल्लभा । साऽहं सम्यक्त्वयोगेन भवप्रत्ययसावधिः || ४७ || कृपास्नेहवशात्प्राप्ता पितृपुत्रतपोवनं । आश्वास्य शोकसंतप्तौ पितरौ पृथुकं तकं ॥ ४८ ॥ एणीस्वरूपिणी स्तन्यपानतोऽवर्द्धयत्ततः । पिता कौशिक पूर्वेण ददशूकेन वैरिणा ॥ ४९ ॥ स दष्टोऽमोघमंत्रेण जीवितं प्रापितो मया । धर्मोपदेशदानेन दुर्मोचक्रोधदूषितः ॥ ५० ॥ मयाsस ग्राहितो धर्ममयासीद् गतिमर्चितां । गताऽहं पुत्रमादाय तापसीवेषधारिणी ॥ ५१ ॥ सोपचारं नृपं दृष्ट्वा तमवोचं नयान्वितं । तनयस्तव राजेंद्र ! राजलक्षणराजितः ||५२॥ गृहाण गृहिणीत्यक्तमेणीपुत्राख्यमेतकं । इत्युक्तेन तु तेनोक्तमपुत्रस्य कुतः सुतः ||५३॥ कथं वा तापसि ! प्राप्तो दारकोऽयं त्वया वद । वृत्तं मया समस्तं तत्साभिज्ञानं ततोऽकथि ॥ ५४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450