Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
हरिवंशपुराणं।
१ ३९२
- एकोनत्रिंशः सर्गः। शास्त्रकौशलतायुक्तो मूलपत्रफलाशनः । कौशिकः क्षुभितो यत्र तत्रान्यस्य तु का कथा ॥२९॥ यागकर्मणि निवृत्ते सा कन्या राजसूनुना । स्वीकृता तापसा भूपं भक्तं कन्यार्थमागताः ॥३०॥ कौशिकायात्र तैस्तस्यां याचितायां नृपोऽवदत् । कन्या सोढा कुमारेण यातेत्युक्तास्तु ते ययुः ॥३१॥ सीभूयापि हंतव्यो मया त्वमपि भूपते । आक्रुश्य कौशिको यातः क्लिशितेनांतरात्मना ॥३२॥ अभिषिच्य नृपस्त्रस्तो धरित्रीधरणे सुतं । अव्यक्तगर्भया देव्या सहाभूत्तापसस्तया ॥३३॥ तापस्यपि सुतां लेभे तापसाश्रमभूषिणीं । ऋषिदत्ताख्यया ख्यातां भूषितामप्यभिख्यया ॥३४॥ अणुव्रतानि सा लेभे चारणश्रमणांतिके । यौवनं च नवं यूनां मनोनयनवंधनं ॥३५॥ शांतायुधसुतः श्रीमान् श्रावस्तीपतिरेकदा । शीलायुध इति ख्यातस्तं यातस्तापसाश्रमं ॥३६॥ एकयैव कृतातिथ्यस्तया तापसकन्यया । रुच्याहारैर्मनोहारि स वल्कलकुचश्रिया ॥३७॥ अतिविश्रमतः प्रेम तयोरप्रतिरूपयोः । विभेद निजमर्यादां चिरं समनुपालितां ॥३८॥ गतो रहसि निःशंकां निःशंकस्तामसौ युवा । अरीरमद् यथाकामं कामपाशवशो वां ॥३९॥ व्यजिज्ञपत् ततस्तं सा साध्वी साध्वसपूरिता । ऋतुमत्यार्यपुत्राहं यदि स्यां गर्भधारिणी ॥४०॥ तदा वद विधेयं मे किमिहाकुलचेतसः । पृष्टस्तथा स तामाह माऽऽकुला भूः प्रिये श्रृणु ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450