Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 435
________________ हरिवंशपुराणं । ३८६ अष्टाविंशः सर्गः । श्रावस्त्यामस्ति विस्तीर्णयशस्तीर्ण महार्णवः । एणीपुत्र इति क्षोणी - पतिरक्षीणपौरुषः ॥ ५॥ प्रियंगु सुंदरी तस्य दुहिता लोकसुंदरी । तस्याः स्वयंवरारार्थं तु तेनाहूता वयं नृपाः ॥ ६ ॥ नापि हेतुना कोऽपि न वृतो वृतया श्रिया । कन्यया वन्यहस्तिन्या वन्येतरगजो यथा ॥ ७ ॥ भूपाः संभूय भूयांसो विलक्षा लोभलक्षिताः 1 कन्यापित्रा ततः सत्रा सद्यो योद्धुं समुद्यताः ॥८॥ तेन भोः क्षुभितान्याशु सहस्राणि महीभुजां । संकोचितानि संग्रामे नेत्राणि रविणा यथा ॥ ९ ॥ तुंगाभिमानिनः केचिद् भंगांगीकरणक्षमाः । रणांगणगता भूपाः प्राणान् सद्यो हि तत्यजुः॥ १० ॥ विश्वेऽप्यश्वरवात्तस्मात्सहस्रकरतो वयं । ध्वांतौघा इव भीता भोः प्रविष्टा गहरं वनं ॥ ११ ॥ कुरु धर्मोपदेशं भो धर्मतत्त्वमजानतां । त्वं वचोभिरलं मृष्टैर्दृष्टतत्वोऽभिलक्ष्यसे ॥ १२ ॥ पृष्टस्तथा तथा शौरिस्तेषां धर्मं द्विधाऽभ्यधात् । यतिश्रावकभेदज्ञाः श्रामण्यं ते यथा ययुः ।। १३॥ प्रियंगुसुंदरी लाभलोभेन यदुनंदनः । श्रावस्ती वस्तुविस्तारविश्रुतां तामशिश्रियत् ॥ १४ ॥ बाह्यद्याने च तत्रासौ कामदेवगृहेऽग्रतः । त्रिपादं कृत्रिमं हैमं महामहिषमैक्षत ॥ १५ ॥ पप्रच्छ विप्रमेकं भो किमेष महिपत्रिपाद् | निर्मितो रत्ननिर्माणो भाव्यमत्र हि हेतुना ॥ १६ ॥ स प्रावमिवाभूत्पूर्वी भूपतिरार्यकः । इक्ष्वावर्जितशत्रुस्तत्पुत्रश्चापि मृगध्वजः ॥ १७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450