Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 437
________________ हरिवंशपुराणं । - ३८८ अष्टाविंशः सर्गः। प्रतिशत्रुत्रिपिष्टस्य द्रोह्यभूदलकापुरे । अश्वग्रीव इति ख्यातो विद्याधरमहेश्वरः ॥३१॥ सचिवस्तस्य निस्तीर्णतर्कमार्गमहार्णवः । हरिश्मक्षुवदस्पृश्यो हरिश्मश्रु इति श्रुतः ॥ ३२ ॥ नास्तिकैकांतवादी स प्रत्यक्षकप्रमाणकः । प्रत्यक्षानुपलभ्यं यत्तन्नास्तीत्यभ्युपेतवान् ॥ ३३ ॥ चतुर्भूतसमूहेऽस्मिन् किण्वादौ मदशक्तिवत् । चैतन्यशक्तिरत्यंतमसत्यैव भवत्यसौ ॥ ३४॥ आत्मेति व्यवहारोत्र लोकस्य न विरुध्यते । न भूतव्यक्तिरिक्तोऽस्ति संसार्यनुपलन्धितः॥३५॥ पुण्यापुण्यविधाता यो भोक्ता च सुखदुःखयोः । इष्टाऽस्तस्य वा दृष्टेरभावात् पारलौकिकः॥३६॥ नारकस्वर्गतियेचविकल्पोऽज्ञविकल्पितः। भोगाधिष्ठात्रधिष्ठान: परलोको न विद्यते ॥३७॥ ज्ञानवृत्तिविशेषस्य शक्यो यश्च विनिश्चितः । मोक्षो भोक्तुरभावात्स न युक्तो निःप्रमाणकः ॥३८॥ भूतसंश्लेषजातस्य भृतविश्लेषनाशिनः । सुखिनश्चिद्विशेषस्य संयमो भोगनाशनः ।। ३९ ।। इत्येकांतकुतर्केण संजितः सचिवः स च । आगमानुमितिज्ञेयो जीवाद्यर्थात्परोचनः॥४०॥ परलोककथापोढदुःकथामूढमानसः । कामभोगैः कनिष्ठोऽभूत्कनिष्ठो धर्मदूषकः ॥४१॥ नास्तिकस्य तथा तस्य प्रेत्याभावापलापिनः । तीर्थकृच्चक्रवादिमहापुरुषदूषिणः॥४२॥ हरिश्मश्रोरीहस्य हरिकंठोऽपि नास्तिकः । धर्मकुंठोऽपि भावेन नित्याविष्टोऽवतिष्ठते ॥ ४३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450