Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 433
________________ हरिवंशपुराणं । ३८४ सप्तविंशः सर्गः । वज्रायुधचरयुत्वा जातः सर्वार्थसिद्धितः । संजयतः फणींद्रस्त्वं जयंतो ब्रह्मलोकतः ॥ १२२ ॥ एकजन्मापकोरण बहुजन्मसु वैरधीः । अवधीत् सिंहसेनं तं श्रीभूतिचरजीवकः ॥ १२३ ॥ dist घनवैरेण कोपविघ्नस्य को गुणः । जातः प्रत्युत जातोऽयं सौख्यविघ्नकृदात्मनः ॥ १२४॥ उपलभ्य मतं जैनं गजो जन्मनि पंचमे । निर्वैरो निर्वृतो हे त्वं संसरत्येष वैरभाक् ।। १२५ ।। वैरबंधमिति ज्ञात्वा घोरसंसारबर्धनं । धरणेंद्र ! विमुंच त्वं तथा मिथ्यात्वमप्यरं ।। १२६ ।। इत्यादित्याभदेवेन धरणेंद्रः प्रबोधितः । मुक्तवैरः स सम्यक्त्वं जग्राह भवतारणं ।। १२७ ।। ततः खंडित विद्यास्ते छिन्नपक्षाः खगा यथा । खिन्नोद्यमास्तदेत्युक्ता धरणेंद्रेण खेचराः || १२८ || प्रतिमां व्योमगाः सर्वे संजयतस्य पावनीं । शैले स्थापयतात्राशु पंचचापशतोच्छयां ।। १२९ ।। तस्याश्चरणमूले वः पुरश्चरणकारिणां । कालेन महता क्लेशाद्विद्याः सिद्धचंतु नान्यथा ॥ १३० ॥ इतः प्रभृति च स्त्रीणां विद्युद्दंष्ट्रस्य संततौ । प्रज्ञप्तिरोहिणी गौर्यः सिध्यंतु न नृणां तु ताः ॥१३१॥ इत्युक्तमनुमन्यैते खगाः प्रणतिपूर्वकं । विद्याः स्वा लेभिरे भूयो यथास्वं च ययुः सुराः ॥ १३२ ॥ खेचराः स्थापयांचक्रुस्तां यतेः प्रतियातनां । नानोपकरणां तत्र हेमरत्नमयीं गिरौ ॥ १३३ ॥ हृतविद्या यतस्तत्र मंतस्तस्थुरानतः । विद्याधरास्ततः शैलं श्रीमंतं तं जना जगुः ॥ १३४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450