Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 431
________________ हरिवंश पुराणं । ३८२ सप्तविंशः सर्गः । तस्य मेघनिनादस्य राज्ञा कृत्यमजानता । वज्रदत्तमुनिः पृष्टः कारणं प्रत्यभाषत ।। ९६ ।। चित्रकार पुरेाभूत्मीतिभद्रो नरेश्वरः । दयिता सुंदरी तस्य पुत्रः प्रीतिकरस्तयोः ॥ ९७ ॥ चित्रबुद्धिस्तथा मंत्री कमला तस्य कामिनी । विचित्रमतिरित्यासीत्तनयः सनयो नयोः || १८ || अमात्यराजपुत्रौ तौ श्रुत्वा तु तपसः फलं । श्रुतसागरपादांते युवानौ तपसि स्थितौ ।। ९९ ॥ तौ च निर्वाणधामानि पश्यंती कांतदर्शनौ । साकेतमन्यदा यातौ नानाविधतपोधनौ ॥ १०० ॥ गणिकां बुद्धिसेनाख्यां तत्र दृष्ट्वाऽतिरूपिणीं । भग्नः कर्मवशान्नाग्यान्मंत्रिपुत्रस्त्वपत्रपः ॥ १०१ ॥ राज्ञः स गंधमित्रस्य सूपकारपदे स्थितः । मांसपाकविशेषज्ञो लेभे तो गणिकां ततः ॥ १०२ ॥ स भुक्त्वामाऽनया कामं सर्वतोऽविरतात्मकः । मांसाशनप्रियो मृत्वा सप्तमीं पृथिवीमितः ॥ १०३॥ तितो भ्रां संसारं सारवर्जितं । जातः पापविशेषेण मारणो मनवारणः ॥ १०४ ॥ साधुदर्शनयोगेन जातिस्मृतिमुपागतः । निंदन् मंदरुचिः कर्म गजांऽयमुपशांतवान् ॥ १०५ ॥ तदाकर्ण्य करींद्रोऽसौ नरेंद्र यतैर्वचः । मिथ्या कलंकमुत्सृज्य जातौ श्रावकतायुजौ ॥ १०६ ॥ पंकप्रभाविनिर्यातो नारकोऽप्यभवत्पुनः । मंगीदारुणयोर्व्याधो नामकर्मातिदारुणः ॥ १०७ ॥ बने प्रियंगुखंडेऽसौ वज्रायुधमहामुनिं । व्याधो विव्याध योगस्थं सोऽपि सर्वार्थसिद्धिमेत् ॥ १०८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450