Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
हरिवंशपुराण।
३८१
सप्तविंशः सर्गः। रश्मिवेगोऽन्यदा जातः सिद्धकूटं वदिषुः । हरिचंद्रमुनेस्तत्र धर्म श्रुत्वाऽभवद्यतिः ॥ ८३॥ कांचनाख्यगुहायां तं स्वाध्यायध्वनिपावनं । आर्ये ते वंदितुं याते रश्मिवेगं महामुनि ॥ ८४ ॥ बालुकाप्रमभूमेर्यो निर्यातो नारकश्चिरं । स संसृत्य गुहायां हि जातः सोऽजगरोऽत्र तु ॥ ८५ ॥ कायोत्सर्गस्थितं साधुमुपसर्गनिरीक्षणात् । आर्ये च ते समर्यादे सोऽगिलद्विपुलोदरः ।। ८६ ॥ रश्मिवेगो मृतः कल्पे कापिष्ठे श्रेष्ठधीरभूत् । अर्कप्रभस्तथाऽत्रार्ये विमाने रुचके सुरौ ।। ८७ ॥ महाशत्रुरसौ मृत्वा रौद्रध्यानदुराशयः । पंकप्रभा भुवं प्राप्तः पापपंककलंकितः ॥ ८८ ॥ प्रीतिकरविमानेशः सिंहचंद्रचरणयुतः । अपराजितसुंदर्योः पुत्रश्चक्रपुरेऽजनि ॥ ८९ ॥ चक्रायुधाभिधानस्य चित्रमालाऽस्य भामिनी । तस्यामर्कप्रभश्युत्वा जातो वज्रायुधः सुतः।।९०॥ श्रीधरापूर्वको देवः पृथिवीतिलके पुरे । प्रियंकरातिवेगाभ्यां रत्नमालाऽभवत्सुता ॥ ९१ ॥ वज्रायुधाय सा दत्ता तस्यां रत्नायुधः सुतः । जातो यशोधरापूर्व सुरः पूर्वसुकर्मणः ॥ ९२ ।। चक्रायुधः श्रियं न्यस्य सुते वज्रायुधे तपः । पिहिताश्रवपादांते मृत्वांते नितिं श्रितः ॥ ९३ ।। वज्रायुधोऽपि विन्यस्य राज्यं रत्नायुधे तपः। दधे राज्यमदोन्मत्तः स च मिथ्यात्वमागतः॥९४॥ जलावगाहनायास्य राजहस्त्यन्यदा गतः । मुनिदर्शनतः स्मृत्वा जाति नापःपिबत्यसौ ॥ ९५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450