SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराण। ३८१ सप्तविंशः सर्गः। रश्मिवेगोऽन्यदा जातः सिद्धकूटं वदिषुः । हरिचंद्रमुनेस्तत्र धर्म श्रुत्वाऽभवद्यतिः ॥ ८३॥ कांचनाख्यगुहायां तं स्वाध्यायध्वनिपावनं । आर्ये ते वंदितुं याते रश्मिवेगं महामुनि ॥ ८४ ॥ बालुकाप्रमभूमेर्यो निर्यातो नारकश्चिरं । स संसृत्य गुहायां हि जातः सोऽजगरोऽत्र तु ॥ ८५ ॥ कायोत्सर्गस्थितं साधुमुपसर्गनिरीक्षणात् । आर्ये च ते समर्यादे सोऽगिलद्विपुलोदरः ।। ८६ ॥ रश्मिवेगो मृतः कल्पे कापिष्ठे श्रेष्ठधीरभूत् । अर्कप्रभस्तथाऽत्रार्ये विमाने रुचके सुरौ ।। ८७ ॥ महाशत्रुरसौ मृत्वा रौद्रध्यानदुराशयः । पंकप्रभा भुवं प्राप्तः पापपंककलंकितः ॥ ८८ ॥ प्रीतिकरविमानेशः सिंहचंद्रचरणयुतः । अपराजितसुंदर्योः पुत्रश्चक्रपुरेऽजनि ॥ ८९ ॥ चक्रायुधाभिधानस्य चित्रमालाऽस्य भामिनी । तस्यामर्कप्रभश्युत्वा जातो वज्रायुधः सुतः।।९०॥ श्रीधरापूर्वको देवः पृथिवीतिलके पुरे । प्रियंकरातिवेगाभ्यां रत्नमालाऽभवत्सुता ॥ ९१ ॥ वज्रायुधाय सा दत्ता तस्यां रत्नायुधः सुतः । जातो यशोधरापूर्व सुरः पूर्वसुकर्मणः ॥ ९२ ।। चक्रायुधः श्रियं न्यस्य सुते वज्रायुधे तपः । पिहिताश्रवपादांते मृत्वांते नितिं श्रितः ॥ ९३ ।। वज्रायुधोऽपि विन्यस्य राज्यं रत्नायुधे तपः। दधे राज्यमदोन्मत्तः स च मिथ्यात्वमागतः॥९४॥ जलावगाहनायास्य राजहस्त्यन्यदा गतः । मुनिदर्शनतः स्मृत्वा जाति नापःपिबत्यसौ ॥ ९५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy