SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ३८० सप्तविंशः सर्गः । म्लेच्छः शृगालदत्तस्तद्दंतिदंतास्थिमौक्तिकं । दत्तवान् धनमित्राय पूर्णचंद्राय वाणिजः ॥७०॥ तास्थिभिरयं तुष्टः कारयित्वा नृपासनं । हारभारं तु मुक्ताभिरथास्ते तद्विभर्त्ति तं ॥ ७१ ॥ अहो संसारवैचित्र्यं देहिनामिह मोहिनां । पितुरंगानि जायंते भोगांगानि परांगवत् ॥ ७२ ॥ निशम्य शमिनो वाच्यं रामदत्ता प्रमादिनं । तदशेषमुदाहृत्य पूर्णचंद्रमबोधयत् ॥ ७३ ॥ दानपूजातपःशीलसम्यक्त्वमनुपालय सः । कल्पे तस्मिन् विमानेऽभूद्वैडूर्यप्रभनामनि ॥ ७४ ॥ रामदत्ताऽपि सम्यक्त्वात्स्त्रैणमुत्सृज्य तत्र तु । प्रभंकरविमानेऽभूद्देवः सूर्यप्रभाभिः ॥ ७५ ॥ सिंहचंद्रमुनिः सम्यगाराधितचतुष्टयः । ग्रैवेयकेऽहमिद्रोऽभूत्स प्रीतिंकरसंज्ञके ।। ७६ ।। सूर्यप्रभसुरथ्युत्वा जंबूद्वीपस्य भारते । वैताढ्घदक्षिणश्रेण्यां धरणीतिलके पुरे || ७७ || भूभृतोऽतिबलस्याभूत्सम्यक्त्वच्युतिदोषतः । सुलक्षणमहादेव्यां श्रीधराख्या शरीरजा ॥ ७८ ॥ अलकापतये दत्ता सा सुदर्शनभुभुजे । स वैडूर्यविमानेशस्तस्यां जाता यशोधरा ॥ ७९ ॥ दत्तायामुत्तरश्रेण्यां प्रभाकरपुरेशिने । सूर्यावर्त्ताय जातोऽस्यां सुतोऽसौ श्रीधरोऽमरः ॥ ८० ॥ तस्मै तु रश्मिवेगाय राज्यं दत्त्वा पिता ततः । मुनिचंद्रसमीपेऽसौ मोक्षार्थी तपसि स्थितः ॥ ८१ ॥ गुणवत्यार्थिकापार्श्वे श्रीधरा सयशोधरा । सम्यग्दर्शनसंशुद्धा प्रव्रज्यां प्रत्यपद्यत ॥ ८२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy