________________
हरिवंशपुराण।
सप्तविंशः सर्गः। पूर्णचंद्रमुनेः श्रुत्वा रामदत्तांबिकार्यिका । प्रवृत्ति रामदचाया गत्वा बोधयतिस्म तां ॥ ५७ ।। पावजद्रामदत्ता सा संसारभयवेदिनी । राहुभद्रगुरोरते सिंहचंद्रोऽपि बोधितः ॥ ५८॥ पूर्णचंद्रस्तु राज्यस्थः प्रतापप्रणताहितः । भोगाशक्तो बभूवासौ सम्यक्त्वव्रतवर्जितः ॥ ५९ ॥ एकदा रामदत्ताया सिंहचंद्रं धृतावधि । पप्रच्छ चारणं नत्वा स्वमातृसुतजन्म सा ॥ ६० ॥ स प्राह भरतेऽत्रैव विषये कोशलाभिधे । बभूव बद्धिकिग्रामे विप्रो नाम्ना मृगायणः ॥ ६१ ॥ ब्रामण्यस्य स्वभावेन मधुरा मधुराभिधा । सुता च वारुणी यूनां वारुणीव मदावहा ॥ ६२ ॥ मत्वा मृगायणो राज्ञः साकेतेऽतिबलस्य सः । हिता हिरण्यवत्येषा श्रीमत्याश्च सुताऽभवत् ॥६३॥ मधुरा त्वं रामदत्ताऽभूः पूर्णचंद्रस्तु वारुणी । वणिक्सुमित्रदत्तोऽहं सिंहचंद्रस्तवात्मजः॥ ६४ ॥ रष्टः श्रीभूतिपूर्वेण भुजगेन पिता गजः । संजातो ग्राहितो धर्म मया स मदवारणः ॥६५॥ दुर्भुजंगचरी मृत्वा चमरी चामरातुरा । रौद्रः कुक्कुटसर्पोऽभूद् रुक्षपक्षपरिग्रहः ॥ ६६ ॥ सोपवासव्रतश्रांतः स विश्रांतमदः करी । प्रस्तः कुक्कुटसर्पण सहस्त्रारमगात्सुधीः ।। ६७ ॥ विमाने श्रीप्रमे तत्र श्रीधरः श्रीधरोऽमरः । अप्सरोभिरमा भोगी धर्मेण रमतेऽधुना ॥ ६८॥ क्रोधाद् धमिल्लपूर्वेण मकेटेन हतस्तदा । पापः कुक्कुटसर्पोऽगात्पृथिवीं बालुकाप्रभां ॥ ६९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org