Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 407
________________ हरिवंशपुराणं । गः । तनयस्तस्य सौदासः स मांसरसलालसः । मायूरमांसमात्रायाः पितुराज्ञामदापयत् ॥ १३ ॥ प्रत्यहं शिखिनां मांसं सूपकारेण संस्कृतं । भक्षयत्यप्रकाशं तत् प्रासादांतरवस्थितः ॥ १४ ॥ कदाचित्तु हृते मांसे मार्जारेण पुरो वहिः । सूपकारो गतोऽपश्यन्मृतं शिशुमुपांशु च ॥ १५ ॥ आनीयादात्सुसंस्कृत्य सौदासोऽप्यघसन्मुदा । अपृच्छच्च स तं मांसं कस्येदमिति सादरः ॥ १६ ॥ अशितानि पुरा भद्र ! पिशितानि बहूनि भोः । न शतांशेन तान्यस्य स्पृशंति स्म रसांतरं ।। १७ ।। सत्यं ब्रूहि हितं साधो ! सत्यमस्मन्न ते भयं । इत्युक्तः सोऽवदत्सर्वं नीत्या युक्तः स्वचेष्टितं ॥ १८ ॥ सौदासोऽपि च तत् श्रुत्वा सूपकारं शशास सः । तुष्टोऽस्मि मर्त्य मांसं मे नित्यमानीयतामिति ॥ १९ ॥ पितर्युपरते तावत्सौदासेऽपि पदस्थिते । सोपायं सूपकारोऽभूदन्वहं शिशुमारकः ॥ २० ॥ प्रत्येकं प्रत्यहं हानिमपत्यानामवेक्ष्य वै । परीक्ष्य भक्षको लोकैराशु देशादपाकृतः ॥ २१ ॥ रंध्रे व्याघ्रवदापत्य निशि नीत्वा नु मानुषान् । दिवाऽरण्ये चरः कुर्याद् व्यसनोपहतो न किं ॥ २२॥ असाध्यो लोकवित्रासी स एष भवताऽधुना । प्रापितः साधुना मृत्युमसाधारणशक्तिना ॥ २३ ॥ इत्यावेद्य वयोवृद्धाः सौदासस्य कुचेष्टितं । वस्त्रमाल्यविभूषाद्यैः पूजयंति स्म यादवं ॥ २४ ॥ सोऽचलग्रामे सार्थवाहस्य देहजां । वेद वामपुरं चामा प्रयातो वनमालया ।। १५ ।। 1 / Jain Education International ॐ५८ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450