Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
हरिवंशपुराणं ।
३७१
षडविंशः सर्गः ।
आबद्धमुकुटापीडविलसन्मणिकुंडलाः । ये ते मी कौशिकाः खेटाः कौशिकस्तंभमाश्रिताः ॥ १३ ॥ अमी विद्याधरा ह्यार्याः समासेन समीरिताः । मातंगानामपि स्वामिन् निकायान् शृणु वच्मि ते। १४ । नीलांबुदचयश्यामा नीलांबरवरस्रजः । अमी मातंगनामानो मातंगस्तंभसंगताः ॥ १५ ॥ श्मशानास्थिकृत्तोत्तंसा भस्मरेणुविधूसराः । श्मशाननिलयास्त्वेते श्मशानस्तंभसंश्रिताः ॥ १६ ॥ नीलवैडूर्यवर्णानि धारयंत्यं वराणि ये । पांडुरस्तंभ मेत्यामी स्थिताः पांडुकखेचराः ॥ १७ ॥ कृष्णाजिनधरास्त्वेते कृष्णचर्मांवरस्रजः । कालस्तंभं समभ्येत्य स्थिताः कालस्वपाकिनः || १८ || पिंगलैर्मूर्धजैर्युक्तास्तप्तकांचनभूषणाः । श्वपाकीनां च विद्यानां श्रिताः स्तंभं श्वपाकिनः ॥ १९ ॥ पर्णपत्रांशुकच्छन्नविचित्रमुकुटखजः । पार्वतेया इति ख्याताः पार्वतं स्तंभमाश्रिताः || २० | वैशीपत्रकृतोत्तंसाः सर्वर्त्तुकुसुमस्रजः । वंशस्तंभाश्रिताश्चैते खेटा वंशालया गताः || २१ || महाभुजगशोभांक संदष्टवरभूषणाः । वृक्षमूलमहास्तंभमाश्रिता वार्क्षमूलिकाः ।। २२ ।। स्ववेशकृत संचाराः स्वचिह्नकृतभूषणाः । समासेन समाख्याता निकायाः खचरोद्गताः ॥ २३ ॥ इति भार्योपदेशेन ज्ञातविद्याधरांतरः । शौरिर्यातो निजं स्थानं खेचराश्च यथायथं ॥ २४ ॥ शौरिर्मदन वेग तामेकदा तु कुतश्चन । एहि वेगवतीत्याह साऽपि रुष्टाऽविशदृहं ।। २५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450