Book Title: Harivanshpuranam Purvarddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 421
________________ हरिवंशपुराणं। ३७२ षड्विंशः सर्गः। प्रज्वाल्यात्रांतरे गेहात् शौरि त्रिशिखरांगना । श्रित्वा मदनवेगाभा सूर्यनख्यहरच्छलात् ॥२६॥ अंतरिक्षे मुमुक्षुस्तमद्राक्षीद् द्रागधोंऽतरे । रिपुं मानसवेगाख्यमकस्मात्समुपस्थितं ॥ २७ ॥ विमुच्य वियति शौरि मारणे विनियुस्य तं । यथेष्टं सा गता सोऽपि पपात तृणकूटके ।। २८॥ गीयमानं नरैः श्रुत्वा जरासंधयशः सितं । ज्ञात्वा राजगृहं तुष्टः प्रविष्टः पुरमुत्तमं ॥ २९॥ छूते जित्वा हिरण्यस्य कोटिमत्र जनाय सः । त्यागशीलो ददौ सर्वा सर्वस्मै तामितस्ततः ॥३०॥ जरासंधस्य हतारमीना जनयिष्यति । इति नैमित्तिकादेशादीगन्विष्यते तदा ॥ ३१ ॥ दृष्ट्वा च तं तदाध्यक्ष स्वारुद्धतनुश्च सः । नीत्वा मुक्तो गिरेरग्राम्रियतामिति तत्क्षणे ॥ ३२ ॥ ततः पतदसौ वेगाद्वेगवत्या धृतो बलाद् । नीयमानस्तया कापि चिंतामेतामुपागतः ॥ ३३ ॥ भारुडैरंडजैः पूर्व चारुदत्तो यथाऽऽदृतः । तथाऽहमपि नूनं तैर्दुरंतं किंनु मे भवेत् ॥ ३४ ॥ दुरंता बंधुसंबंधा दुरंता भोगसंपदः । दुरंताः कांतिकायाश्च तथापि स्वतधीजनः ॥ ३५ ॥ पुण्यपापकृदेकोऽयं भोक्ता च सुखदुःखयोः । जायते म्रियते चात्मा तथापि स्वजनोन्मुखः ॥३६॥ त एव सुखिनो धीरास्त एव खहिते स्थिताः । विहाय भोगसंबंधान् ये स्थिता मोक्षवर्त्मनि ॥३७॥ मोगतृष्णोमिनिममा वयं तु गुरुकर्मकाः । संसारसुखदुःखाप्तौ मुहुः कुर्मो विवर्तनं ॥ ३८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450