________________
हरिवंशपुराणं।
३७२
षड्विंशः सर्गः। प्रज्वाल्यात्रांतरे गेहात् शौरि त्रिशिखरांगना । श्रित्वा मदनवेगाभा सूर्यनख्यहरच्छलात् ॥२६॥ अंतरिक्षे मुमुक्षुस्तमद्राक्षीद् द्रागधोंऽतरे । रिपुं मानसवेगाख्यमकस्मात्समुपस्थितं ॥ २७ ॥ विमुच्य वियति शौरि मारणे विनियुस्य तं । यथेष्टं सा गता सोऽपि पपात तृणकूटके ।। २८॥ गीयमानं नरैः श्रुत्वा जरासंधयशः सितं । ज्ञात्वा राजगृहं तुष्टः प्रविष्टः पुरमुत्तमं ॥ २९॥ छूते जित्वा हिरण्यस्य कोटिमत्र जनाय सः । त्यागशीलो ददौ सर्वा सर्वस्मै तामितस्ततः ॥३०॥ जरासंधस्य हतारमीना जनयिष्यति । इति नैमित्तिकादेशादीगन्विष्यते तदा ॥ ३१ ॥ दृष्ट्वा च तं तदाध्यक्ष स्वारुद्धतनुश्च सः । नीत्वा मुक्तो गिरेरग्राम्रियतामिति तत्क्षणे ॥ ३२ ॥ ततः पतदसौ वेगाद्वेगवत्या धृतो बलाद् । नीयमानस्तया कापि चिंतामेतामुपागतः ॥ ३३ ॥ भारुडैरंडजैः पूर्व चारुदत्तो यथाऽऽदृतः । तथाऽहमपि नूनं तैर्दुरंतं किंनु मे भवेत् ॥ ३४ ॥ दुरंता बंधुसंबंधा दुरंता भोगसंपदः । दुरंताः कांतिकायाश्च तथापि स्वतधीजनः ॥ ३५ ॥ पुण्यपापकृदेकोऽयं भोक्ता च सुखदुःखयोः । जायते म्रियते चात्मा तथापि स्वजनोन्मुखः ॥३६॥ त एव सुखिनो धीरास्त एव खहिते स्थिताः । विहाय भोगसंबंधान् ये स्थिता मोक्षवर्त्मनि ॥३७॥ मोगतृष्णोमिनिममा वयं तु गुरुकर्मकाः । संसारसुखदुःखाप्तौ मुहुः कुर्मो विवर्तनं ॥ ३८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org