________________
हरिवंशपुराणं ।
षड्विंशः सर्गः। इत्यादि चिंतयन् वीरो वेगवेत्या गिरेस्तटे । अवतार्येष भखायाः समाकृष्य वहिः कृतः ॥३९॥ पति वेगवती दृष्टा रुरोद विरहाकुला । परिष्वज्य स तां मेने स्वपरांगसुखासिकां ॥ ४०॥ ततस्तेन प्रिया पृष्टा तस्मै सर्व न्यवेदयत् । हृते भर्तरि यद्वत्तं सुखदुःखं निजास्पदे ॥ ४१ ॥ द्वयोरन्वेषितः श्रेण्योर्यथारण्यपुरादिषु । पर्यटत्या चिरं क्षेत्र भारताख्यमशेषतः ॥ ४२ ॥ पार्श्वे मदनवेगायाः पत्युदर्शनमेतया । वियोगमपि कांक्षत्याः स्वस्याः स्थानमलक्षितं ॥४३॥ श्रित्वा मदनवेगाया रूपं त्रिशिखभार्यया । सूर्पणख्या हृतिं चाख्यत्वमुत्क्षिप्य जिघांसया ॥४४॥ अमुतोऽधित्यकातस्त्वमापत्य विधृतो मया । तीर्थ पंचनदं चाद्रिं हीमंतमधितिष्ठसि ।। ४५॥ इत्यावेदितवृत्तांतः स तया चंद्रवक्त्रया । रेमे तत्र धुनीधीरध्वानहारिषु सानुषु ॥ ४६ ॥ सोष्टन् यदृच्छयाऽद्राक्षीनागपाशवशां दृढं । धन्यां कन्यां यथा वन्या नागपाशवशां वशां॥४७॥ तदादहृदयो नद्यां तामुद्यन्मुखकांतिकां । व्यपासयदसौ पाशात्पापपाशाद् यथा यतिः ॥ ४८॥ मुक्तबंधा च नत्वा सा तमचिंतितबांधवं । प्रसादात्तव मे नाथ ! सिद्धा विद्येत्यभाषत ।। ४९ ॥ श्रृणु त्वं दक्षिणश्रेण्यां पुरे गगनबल्लभे । विद्युइंष्ट्रान्वयोत्थाहं बालचंद्रा नृपात्मजा ॥५०॥ साधयंती महाविद्यां नद्यां विद्याभू तारिणा । नागपाशैरहं बद्धा मोचिता भविता विभो ॥५१॥
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only