SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ३७१ षडविंशः सर्गः । आबद्धमुकुटापीडविलसन्मणिकुंडलाः । ये ते मी कौशिकाः खेटाः कौशिकस्तंभमाश्रिताः ॥ १३ ॥ अमी विद्याधरा ह्यार्याः समासेन समीरिताः । मातंगानामपि स्वामिन् निकायान् शृणु वच्मि ते। १४ । नीलांबुदचयश्यामा नीलांबरवरस्रजः । अमी मातंगनामानो मातंगस्तंभसंगताः ॥ १५ ॥ श्मशानास्थिकृत्तोत्तंसा भस्मरेणुविधूसराः । श्मशाननिलयास्त्वेते श्मशानस्तंभसंश्रिताः ॥ १६ ॥ नीलवैडूर्यवर्णानि धारयंत्यं वराणि ये । पांडुरस्तंभ मेत्यामी स्थिताः पांडुकखेचराः ॥ १७ ॥ कृष्णाजिनधरास्त्वेते कृष्णचर्मांवरस्रजः । कालस्तंभं समभ्येत्य स्थिताः कालस्वपाकिनः || १८ || पिंगलैर्मूर्धजैर्युक्तास्तप्तकांचनभूषणाः । श्वपाकीनां च विद्यानां श्रिताः स्तंभं श्वपाकिनः ॥ १९ ॥ पर्णपत्रांशुकच्छन्नविचित्रमुकुटखजः । पार्वतेया इति ख्याताः पार्वतं स्तंभमाश्रिताः || २० | वैशीपत्रकृतोत्तंसाः सर्वर्त्तुकुसुमस्रजः । वंशस्तंभाश्रिताश्चैते खेटा वंशालया गताः || २१ || महाभुजगशोभांक संदष्टवरभूषणाः । वृक्षमूलमहास्तंभमाश्रिता वार्क्षमूलिकाः ।। २२ ।। स्ववेशकृत संचाराः स्वचिह्नकृतभूषणाः । समासेन समाख्याता निकायाः खचरोद्गताः ॥ २३ ॥ इति भार्योपदेशेन ज्ञातविद्याधरांतरः । शौरिर्यातो निजं स्थानं खेचराश्च यथायथं ॥ २४ ॥ शौरिर्मदन वेग तामेकदा तु कुतश्चन । एहि वेगवतीत्याह साऽपि रुष्टाऽविशदृहं ।। २५ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy