________________
हरिवंशपुराणं।
षडविंशः सर्गः । पइविंशः सर्गः। शौरिर्मदनवेगायां मदनप्रतिमोऽभवत् । अनावृष्टिरिति ख्यातस्तनयो नयविद्धली ॥ १ ॥ सस्त्रीकाः खेचरा याताः सिद्धकूटजिनालयं । एकदां वंदितुं सोऽपि शौरिः मदनवेगया ॥ २ ॥ कृत्वा जिनमहं खेटाः प्रवंद्य प्रतिमागृहं । तस्थुः स्तंभानुपाश्रित्य बहुवेषा यथायथं ॥३॥ विद्युद्वेगोऽपि गौरीणां विद्यानां स्तंभमाश्रितः । कृतपूजास्थितिः श्रीमान् स्वनिकायपरिष्कृतः ॥४॥ पृष्टया वसुदेवेन ततो मदनवेगया । विद्याधरनिकायास्ते यथास्वमिति कीर्तिताः ॥५॥ अस्मदीयं विभो स्तंभ ये श्रिताः पद्मपाणयः। पबमालाधरास्तेऽमी गौरिकाख्या नभश्चराः ॥६। रक्तमालाधराश्चैते रक्तकंबलवाससः । गांधारस्तंभमाश्रित्य गांधाराः खेचराः स्थिताः ॥७॥ नानावर्णमयस्वर्णपीतकोशेयवाससः । मानवस्तंभमेत्यामी स्थिता मानवपुत्रकाः ॥ ८ ॥ किंचिदारक्तवस्त्रा ये लसन्मणिविभूषणाः । मानस्तंभमिता ह्येते खेचरा मनुपुत्रकाः ॥९॥ विचित्रौषधिहस्तास्तु विचित्राभरणस्रजः । औषधिस्तंभमायाता मूलवीर्या नभश्वराः॥१०॥ सर्व कुसुमामोदकांचनाभरणस्रजः । अंतर्भूमिचरा ह्येते ये स्तंभे भूमिमंडके ॥ ११ ॥ विचित्रकुंडलाटोपा ये नागांगदभूषणाः । शंकुस्तंभाश्रितास्तेऽमी शंकुकाः खचराः प्रभो ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org