SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । पंचविशः सर्गः । प्राकृतास्त्रैस्तयोरासीत्प्रथमं प्रधनं महत् । परस्परशरासारव्याप्ताशांतांतरिक्षयोः ॥ ६५ ॥ क्षिप्रं चिक्षेप चाग्नेयमस्त्रं शौरिर्धनुर्धरः । रौद्रज्वालाकुलेनाशु तेनादाहि रिपोर्बलं ॥ ६६ ॥ अस्त्रेण वारुणेनारिर्विध्याप्यायमाहवे । मोहनेन महास्त्रेण शौरिसैन्यं व्यमोहयत् || ६७ ॥ चित्तप्रसादनेनाशु मोहनास्त्रमपास्य सः । शौरिर्व्यनाशयद् व्योम्नि वायव्येन च वारुणं ॥ ६८ ॥ क्षिप्रं क्षिप्रं निरस्यासावस्त्रमस्त्रेण वैरिणः । माहेंद्रास्त्रेण चिच्छेद शिरस्तस्य यदूत्तमः ॥ ६९ ॥ तस्मिन्नस्तमिते दीप्ते क्षिप्रं शेषा नभश्वराः । नेशुराशाः परित्यज्य खाविव करोत्कराः ॥ ७० ॥ ततः शौरिः समस्तैस्तैरात्मीयैः खेचरैर्वृतः । श्वशुरं बंधनागाराद्विमोच्य स्वपुरं ययौ ।। ७१ ॥ दुर्जयमप्यरिलोकमनकैः शौर्यसखो निखिलं खचरौघैः । आशु विजित्य जनो जिनधर्मादाश्रयता मिह याति बहूनां ॥ ७२ ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनेसनाचार्यकृतौ मदनवेगा। लाभ त्रिशिखरवधवर्णनो नाम पंचविंशः सर्गः । Jain Education International ३६९ For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy