________________
हरिवंशपुराण। - ३६८
पंचविंशः सर्गः। गत्वा वध्यः स्वयं प्राप्तः समीपमिति तोषवान् । शौरिः श्वशुरपुत्रादिवलेनामा विनिर्गयौ ॥५२॥ खचराणां निकायस्य मध्ये स यदुनंदनः । कल्प्यवासिनिकायस्य पुरंदर इवाब भी ।। ५३ ।। खे मातंगनिकायस्य मध्ये त्रिशिखरो बभौ । रौद्रासुरनिकायस्य यथैव चमरासुरः ।। ५४ ॥ विमानश्च महामानैर्गजैश्च मदमत्सरैः । तुरंगैर्वायुवेगैश्च बलयोः स्थगितं नमः ॥ ५५ ॥ शस्त्रजालकरच्छन्नचंडांशुकरयोरभूत् । तूर्यादिरवतोषियोः संघातो व्योम्नि सैनयोः ।। ५६ ॥ आकर्णाकृष्टकोदंडमंडलोन्मुक्तसायकैः । अभिद्यत नृणां बाह्या नांतस्था हृदयस्थली ।। ५७ ॥ अछियंत शिरांस्युग्रचक्रधाराभिराहवे । शशिशंख विशुद्धानि न यशांसि मनस्विनां ॥ ५८ ॥ पपात सुभटः खडधारापातेन मूञ्छितः । अनेकरणनियूंढप्रतापस्तु न संयुगे ॥ ५९॥ घोरमुद्गरपातेन चक्षुर्वश्राम मानिनः । विपक्षस्य जयोग्रासघस्मरं तु न मानसं ॥६॥ गजास्वरथपादातं यथास्वं सुमनोरथं । युयुधे युधि धैर्येण शौर्येण च विशेषितं ।। ६१ ॥ शस्त्रार्थः प्राकृतेर्योधाः कृतयुद्धमहोत्सवाः । युद्धभ्रमविनिमुक्ताश्चिरं युयुधिरेऽधिकं ॥ ६२ ।। शौर्यकांगारवैगारिनीलकंठपुरोगमाः । पुरस्कृत्य जिताथंडाश्चंडवेगेन वेगिना ॥ ६३ ।। जवनाश्वरथारूढं नानाशस्त्रास्त्रभीषणं । अग्रे दधिमुखं शौरि प्राप्तस्त्रिशिखरोऽभितः ॥ ६४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org