________________
३६७
हरिवंशपुराण।
पंचविंशः सर्गः। मुनिराह भवत्सूनोविद्यां साधयतो निशि । चंडवेगस्य यः स्कंधे गंगास्थस्य पतिष्यति ॥ ३९ ॥ तं निश्चित्य पिता पुत्रं चंडवेगं न्ययोजयत् । गंगायां चंडवेगायो विद्याराधनकर्मणि ॥४०॥ नभस्तिलकनाथश्च खेटस्निशिखरः खलः । याचित्वनां स्वपुत्राय सूर्यकाय न लब्धवान् ॥४१॥ युद्धे रंध्रमसौ लब्ध्वा बध्वाऽस्मज्जनकं व्यधात् । वैरानुबंधबुद्धिस्तं बंधनागारवर्तिनं ॥ ४२ ॥ संप्राप्तश्च त्वमस्माभिः सांप्रतं पुरुविक्रमः । श्वशुरस्यारिवद्धस्य कुरु बंधविमोक्षणं ॥ ४३ ॥ पूर्वजानां च दत्तानि सुभौमेन प्रसादिना । विद्यास्त्राणि गृहाणेश ! शात्रवस्य जिघांसया ॥४४॥ श्रुत्वा दधिमुखस्योक्तं वसुदेवः प्रतापवान् । श्वशुरस्य विमोक्षार्थ मतिमात्मनि चादधे ॥ ४५ ॥ चंडवेगस्ततस्तस्मै विद्यास्त्राणि बहून्यसौ । विधिपूर्व ददौ यूने सेवितानि सुरैः सदा ॥ ४६ ॥ अस्त्रं ब्रह्मशिरो नाम्ना लोकोत्सादनमप्यतः । आग्नेयं वारुणं चास्त्रं माहेंद्रं वैष्णवं तथा।। ४७॥ यमदंडमथैशानं स्तंभनं मोहनं तथा । वायव्यं ब्रूभणं चापि बंधनं मोक्षणं ततः ॥४८॥ विशल्यकरणं चास्त्रं व्रणरोहणं तथा । सर्वास्त्रच्छादनं चैव छेदनं हरणं परं ॥ ४९ ॥ एवमाद्यानि चान्यानि सरहस्यानि यादवः । चंडवेगवितीर्णानि जग्राहास्त्राणि सादरः॥५०॥ स्वयमेव बलोद्रकान् क्रूरस्खिशिखरो बलैः । युयुत्सुरागमत्क्षिप्रं चंडवेगपुरांतिकं ॥ ५१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org