________________
हरिवंशपुराण |
३६६
पंचविंशः सर्गः ।
आजगाम च तेनैव सह शत्रुगृहं गृहात् । बुभुक्षुरुपविष्टश्च दर्भासनपरिग्रहः ।। २६ ।। दंष्ट्रा भोजनमग्रेऽस्य द्विजाग्रासनवर्त्तिनः । विन्यस्तं तत्प्रभावेन दंष्ट्रा पावसतां ययुः ॥ २७ ॥ ततोऽध्यक्ष नरैराशु रामाय विनिवेदितं । स जिघांसुस्तमागच्छत्परशुन्यग्रपाणिकः ॥ २८ ॥ भुंजानः पायसं पात्र्यां सुभौमो हन्यमानकः । जघानारिं तथैवाशु चक्रत्वपरिवृत्तया || २९ ॥ तं चतुर्दशरत्नानि निधयो नव भेजिरे । द्वात्रिंशच्च सहस्राणि नृपाश्चक्रिणमष्टमं ॥ ३० ॥ स्त्रीरत्नलाभतुष्टेन मेघनादोऽपि चक्रिणा । नीतो विद्याधरेशित्वमवधीद्वज्रपाणिकं ॥ ३१ ॥ एकविंशतिवारांच चक्रवर्त्त्यपि रोषणः । चक्रेणाब्रह्मणां क्षोणीं शठं प्रतिशठस्तथा ॥ ३२ ॥ षष्टिवर्षसहस्राणि जीवित्वा तृप्तिवर्जितः । सुभौमः सार्वभौमों ते सप्तमीं पृथिवीं गतः ॥ ३३ ॥ संतानो मेघनादस्य विद्याबलसमुद्धतः । प्रतिशत्रुरभूत्षष्ठत्रिखंडाधिपतिर्बलिः ॥ ३४ ॥ नंदश्च पुंडरीकश्थ हलशक्रधरौ ततः । अभूतां निहतस्ताभ्यां बलिभ्यां बलिराहवे || ३५ ॥ बलेर्वशे समुत्पन्नः सहस्रग्रीवखेचरः । परः पंचशतग्रीवो द्विशतग्रीव इत्यतः || ३६ ॥ एवमादिष्वततेषु खेचरेषु बहुष्वभूत् । विद्युद्वेगः पिताऽस्माकं श्वशुरस्तव यादव || ३७ ॥ सोऽन्यदा मुनिमाक्षीदवधिज्ञानचक्षुषं । पतिर्मदनवेगायाः कोऽस्त्वस्या भगवन्निति ॥ ३८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org