________________
हरिवंशपुराणं ।
३६५
पंचविशः सर्गः । यस्माद्भूमिगृहे जातः सुभौमस्तेन भाषितः । कौशिकस्याश्रमे रम्ये प्रच्छन्नो वर्धतेऽधुना ॥ ३ ॥ स हंता जामदग्न्यस्य षड्खंडपतिरूर्जितः । दुहितुर्भविता भर्त्ता भवतोऽल्पैर्दिनैरिह || १४ ॥ सप्तकृत्वः कृतांताभः स कृत्वा क्षत्रमारणं । रामोऽपि निभृतं चेतो धत्ते द्विजहितेऽधुना ॥ १५ ॥ एवमेकातपत्रायां पृथिव्यां जमदग्निजः । प्रतापाग्निपरीताशः पूरिताशो विजृंभते ॥ १६ ॥ सुभौमे वर्धमाने तु तापसाश्रमवासिनि । उत्पाताः शतशो जाता जामदग्रयगृहेऽधुना ॥ १७ ॥ आशंकितः स नैमित्तं पृच्छति स्म सविस्मयः । उत्पाताः कथयंती मे किमनिष्टमिति श्रुतं ।। १८ ।। स आह वर्धते वैरी भवतोऽतर्हितः क्वचित् । विज्ञेयः कथमित्युक्ते प्राह नैमित्तिकस्ततः ॥ १९ ॥ क्षत्रिय संघानां दंष्ट्रा यस्य जिघत्सतः । पायसत्वेन वर्त्तते स एवारिस्तवोद्धतः ॥ २० ॥ इति श्रुत्वा स जिघांसुः शत्रुं क्षत्रियपुंगवं । विशालां सत्र शालां तामाश्वेव समचीकरत् ॥ सत्रमध्ये व्यवस्थाप्य दंष्ट्राभरितभाजनं । निरूपिततदध्यक्षो यत्नवानवतिष्ठते ॥ २२ ॥ आकर्ण्य मेघनादस्तं कृत्वा केवलिवंदनां । गत्वा गजपुरं शीघ्रं पश्यति स्म कुमारकं ॥ २३ ॥ शस्त्रशास्त्रार्णवस्यांते वर्त्तमानमधिश्रियं । ज्वलत्प्रतापमभितो भानुमंतमिवोदितं ॥ २४ ॥ शनैः स प्रेरितस्तेन वृत्तांतविनिवेदिना । अहितेंधनदाहाय वायुनेव तनूनपात् ॥ २५ ॥
२१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org