________________
हरिवंशपुराणं ।
३६४
पंचविंशः सर्गः ।
आता मदनवे गायाः श्रिवा दधिमुखोऽन्यदा । पितृबंधुविमोक्षार्थी संबंधं शौरयेऽवदत् ॥ १ ॥ शृणु देव ! नमेवं संख्यातीतेषु राजसु । अरिंजयपुराधीशो मेघनादोऽभवनृपः ॥ २ ॥ पद्मश्रीस्तस्य कन्याऽभूत् सा च नैमित्तिकैः पुरा । स्त्रीरत्नं भवितेत्येवमादिष्टा चक्रवर्त्तिनः ॥३॥ नभस्तिलकनाथश्च प्रियपूर्वमनेकशः । वज्रपाणिरिति ख्यातस्तामयाचत रूपिणीं ॥ ४ ॥ अलाभे च ततस्तस्यास रुष्टो दुष्टखेचरः । युद्धे जेतुमशक्तोऽगादकृतार्थो निजं पुरं ॥ ५ ॥ मेघनादोऽपि तत्काले जातकेवललोचनं । मुनिमभ्यर्च्य पप्रच्छ नृसुरासुरसंसदि ॥ ६ ॥ प्रभो ! मे दुहितुर्भर्त्ता भविता भरतेऽत्र कः । इति पृष्टोऽवदत्सोऽपि वरमन्वयपूर्वकं ॥ ७ ॥ कौरवान्ययसंभूतो भूतो गजपुरे नृपः । कार्तवीर्य इति ख्यातिं विभ्रद्वीर्यसमुद्धृतः ।। ८ ।। सोsari कामधेन्वर्थे यमदग्निं तपस्विनं । क्रोधात्परशुरामस्तं जघान पितृघातिनं ॥ ९ ॥ क्षत्रियेषु तथाऽन्येषु सकलत्रेषु शत्रुणा । क्रुद्धेन दत्तयुद्धेषु मार्यमाणेषु भूरिषु ॥ १० ॥ अंती तदा पत्नी कार्तवीर्यस्य कातरा । तारा रहसि निःसृत्य प्राविशत्कौशिकाश्रमं ॥ ११ ॥ वसंती तत्र सा भीरुः प्रसूता तनयं शुभं । क्षत्रियत्रासनिर्भेदमष्टमं चक्रवर्त्तिनं ।। १२ ।।
1
Jain Education International
पंचविंशः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org