________________
हरिवंशपुराणं।
३६३
चतुविंशः सर्गः। कदाचित्सह सुप्तोऽसौ तया सुरतखिन्नया । हृतो मानसवेगेन खेचरेण निशि द्रुतं ॥ ७८ ॥ ताडितश्च विबुद्धन खेचरो दृढमुष्टिना । तेन गंगाजले तं च मुमोच भयविदलः ।। ७९ ।। विद्यां साधयतस्तत्र स्कंध विद्याधरस्य सः । पपात नभसस्तस्य विद्यासिद्धिस्तथोदिता ।। ८० ॥ सिद्धविद्यः प्रणम्यासौ प्रयातो यदुनंदनं । कन्या विद्याधरी चैनं निनाय खचराचलं ॥८१॥ तदनंतरमाकीर्णखेचरैनेभसस्तलं । पुष्पाणि पंचवर्णानि पुंचद्भिः प्रणतः पुरः ॥ ८२॥ प्रवेशितः पुरं सोऽथ रथेन रविरोचिषा । तूर्यशंखनिनादेन पूरिताखिलदिङ्मुखं ।। ८३ ।। कन्यां मदनवेगां च मदनोपमविभ्रमः । उपयेमे मुदा दनां खगैर्दधिमुखादिभिः ।। ८४ ॥ विभ्राणो वसुदेवोऽत्र भावं मदनवेगजं । चिक्रीड निविडस्तन्या चिरं मदनवेगया ।। ८५ ॥
अनुभवंतममुं जिनधर्मजं
समसुखं गजमंगजगोचरं ।। रतिषु लब्धवरा वरमंगना
जनकबंधविमोक्षमयाचत ।। ८६ ॥ इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ मदनवेगालामवर्णनो नाम चतुर्विंशतितमः सर्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org