________________
हरिवंशपुराणं।
चतुर्विशा सा। कृतरूपपरावर्तिः शौरिरूपवशीकृता । कन्याभावमुदस्यैनमरीरमदरिस्वसा ।। ६५ ।। नित्यशो भुक्तभोगा च सुप्ते पत्यौ स्वपित्यसौ । प्राक् प्रबुद्धा करोत्यूरूपादसंवाहनादिकं ॥६६॥ अन्यदा तु विबुद्धोऽसौ प्रथमं कथमप्यथ । सोमश्रीरूपमुक्तां तां ददर्श शयितां निशि ।। ६७॥ धीरो विस्मययुक्तस्तां सहसा स्वयमुत्थितां । अप्राक्षीद् ब्रह्महे का त्वं सोमश्रीरिव वर्तसे ॥ ६८॥ सा प्रणम्याभणीत्सौम्य ! दक्षिणश्रेण्यवस्थितं । स्वर्णाभं पुरमस्येशश्चित्तवेगो नभश्चरः ॥ ६९॥ पत्न्यंगारवती तस्य प्रत्यंग संगतप्रभा । सूनुर्मानसत्रेगोऽस्याः सुता वेगवती त्वहं ॥ ७० ।। राज्यं मानसवेगे च पिता न्यस्य तपस्यया । पापस्योपशमं कर्तुं तपोवनमुपाविशत् ॥ ७१ ॥ नीता मानसवेगेन सोमश्रीः स्वपुरं परं । आर्य ! तिष्ठति तत्रासौ शीलवेलावलंबिनी ॥ ७२ ॥ तस्याः प्रसादने तेन प्रयुक्ताऽहमशक्तितः । त्वात्प्रियायाः सखी जाता सत्त्वशीलवशीकृता ॥७३॥ वातानिवेदनायाहं प्रेषिताऽशु तया तदा । त्वत्कलत्रत्वमायाता विचित्राश्चित्तवृत्तयः ॥ ७४ ॥ इत्यावेद्य तदादेशाद्वेगवत्या निवेदितं । सक्रमं पितृबंधुभ्यः सोमश्रीहरणादिकं ।। ७५ ॥ श्रुत्वा च तत्तथा तेऽपि विषण्णमतयः स्थिताः । वेगवत्यपि पत्यामा प्रकृत्या चिरमारमत् ।।७६॥ तया सह सुखं तस्य रममाणस्य भोगिनः । संप्राप्तो माधवो मासो मधुमत्तमधुव्रतः॥ ७७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org